Enter your Email Address to subscribe to our newsletters

नवदेहली, २० जुलाईमासः (हि.स.)। संसदः वर्षाकाल-अधिवेशनस्य प्रथमदिने अद्य लोकसभायां राज्यसभायां च विपक्षेन नीट्-यूजी-परीक्षाप्रश्नपत्र-प्रस्रवणम्, अयोध्यायाः श्रीराममन्दिरे धन-द्रव्यचौर्येण सह विविधविषयान् अधिकृत्य तीव्रः कोलाहलः कृतः। कोलाहलस्य कारणात् उभयोः सदनयोः कार्यवाही आरम्भात् किञ्चित्कालानन्तरमेव मध्यान्हे द्वादश-वादनपर्यन्तं स्थगिता अभवत्।
राज्यसभायां विपक्षनेता मल्लिकार्जुन-खरगे नीट्-यूजी-परीक्षाप्रश्नपत्र-प्रस्रवणस्य विषयम् उत्थापयन् अवदत् यत् जन्तर-मन्तर-स्थले स्वयाचनाया: समर्थनार्थम् एकत्रितानां छात्राणां स्वरः दमनं क्रियते तथा तेषु दंडप्रहारः अपि कृतः। तेन अस्मिन् विषये सदसि चर्चायाः याचना कृता। विपक्षस्य कोलाहलस्य मध्ये सभापतिना सदनस्य कार्यवाही मध्यान्हे द्वादशवादनपर्यन्तं स्थगिता।
अपरत्र लोकसभायामपि विपक्षीयसांसदैः नीट्-यूजी-परीक्षाप्रश्नपत्र-प्रस्रवणम्, अयोध्यायाः श्रीराममन्दिरे धन-द्रव्यचौर्यं तथा अन्यविषयेषु चर्चां कर्तुम् आग्रहं कृत्वा घोषणाः कृताः। अनेके सांसदाः विज्ञान-पट्टिकाः तथा बैनर-पट्टिकाः गृहीत्वा सदनम् आगताः। निरन्तरकोलाहलस्य कारणात् सदनस्य कार्यवाही प्रायः द्वादश-मिनिट्-परिमितकालमेव अभवत्। ततः परं लोकसभाध्यक्षः ओम् बिरला कार्यवाहीं मध्यान्हे द्वादशवादनपर्यन्तं स्थगितवान्।
उल्लेखनीयम् अस्ति यत् संसदः वर्षाकाल-अधिवेशनम् १३ अगस्त-मासपर्यन्तं चलिष्यति। अस्मिन् काले समग्रतः एकोनविंशतिः सभा: प्रस्ताविताः सन्ति। सर्वकारः अस्मिन् अधिवेशने आयकर-संशोधन-विधेयकम्, राष्ट्रियसम्मानस्य अपमान-निवारण-(संशोधन)-विधेयकम्, उच्चतम-न्यायालय-(न्यायाधीशानां संख्या)-संशोधन-विधेयकं इत्यनेन सह सप्त महत्त्वपूर्णविधेयकानि पारितुं सज्जः अस्ति।
Hindusthan Samachar / Divya Ranjan