वर्षाकालीनसत्रतः पूर्वं प्रधानमंत्री सांसदैः सह अकरोत् सार्थक चर्चायाः आह्वानम्
नव दिल्ली, 20 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी सोमवासरे वर्षाकालीनसत्रस्य प्रारम्भात् पूर्वं सर्वान् सांसदान् सदनस्य कार्यवाह्यां उत्साहेन सहभागितां कर्तुम् आहूतवान्। सः उक्तवान् यत् तर्काः तथ्यानि च दृढानि सन्ति चेत् शान्तचित्तेन अ
मानसून सत्र से पूर्व पत्रकारों को संबोधित करते प्रधानमंत्री नरेंद्र मोदी साथ में अन्य मंत्री


नव दिल्ली, 20 जुलाईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी सोमवासरे वर्षाकालीनसत्रस्य प्रारम्भात् पूर्वं सर्वान् सांसदान् सदनस्य कार्यवाह्यां उत्साहेन सहभागितां कर्तुम् आहूतवान्। सः उक्तवान् यत् तर्काः तथ्यानि च दृढानि सन्ति चेत् शान्तचित्तेन अपि स्वस्वरः प्रबलतया उत्थापयितुं शक्यते। सः अवदत् यत् संसदः उत्तरदायित्वम् अस्ति यत् चर्चा समृद्धा भवेत्, प्रत्येकस्य स्वरस्य स्थानं भवेत् तथा प्रत्येकस्य विचारस्य सम्मानः क्रियेत।

संसदः वर्षाकालीनसत्रम् अद्य आरभ्यते। प्रत्येकसत्रस्य पूर्वं प्रधानमन्त्री परम्परानुसारं संसदपरिसरे माध्यमप्रतिनिधीन् सम्बोध्य सर्वकारस्य प्राथमिकताः सत्रसम्बद्धाः अपेक्षाः च प्रकाशयति।

सः वर्षाकालीनसत्रस्य तुलना वर्षर्तोः वर्षाकालेन अकरोत् तथा उक्तवान् यत् उभयोः सक्रियतया उत्पादकतायाः वृद्धिः भवति। एतेन एकतः देशस्य अपरतः सर्वेषां प्राणिनां कल्याणं भवति। सः उभयोः सक्रियतां कामितवान्।

प्रधानमन्त्री अवदत् यत् देशः अधुना विकासस्य नूतनां गतिं प्राप्तवान् अस्ति तथा संसदः स्वस्य सकारात्मकचिन्तनेन वर्षाकालीनसत्रे अस्मिन् अधिकाम् ऊर्जां दातुं शक्नोति। सः उक्तवान् यत् संसदः सुचारुरूपेण प्रवर्तेत, सार्थका चर्चा भवेत्, देशं प्रगतिपथे नेतुं प्रयत्नः क्रियेत इति कालस्य आवश्यकता अस्ति। राष्ट्रभक्त्या ओतप्रोतानां विचाराणां सदने स्थानं भवेत् इति अस्माकं सर्वेषाम् उत्तरदायित्वम् अस्ति।

प्रधानमन्त्री अवदत् यत् गतैकमासे देशेन अनेकाश्च सिद्धयः प्राप्ताः, याभिः देशवासिनः गौरवान्विताः अभवन्। एताः उपलब्धयः राष्ट्रिये, अन्तरराष्ट्रीये, अन्तरिक्षक्षेत्रे च सन्ति। तासु राजस्थाने तैलशोधनालयस्य उद्घाटनम्, तृतीयस्य अर्धचालकसंयन्त्रस्य प्रारम्भः तथा हरितहाइड्रोजनयानस्य आरम्भः अन्तर्भवति।

प्रधानमन्त्री युवप्रारम्भसंस्थया स्काई रूट इत्यनया निजरॉकेटस्य अन्तरिक्षे प्रक्षेपणस्य उपलब्धेः उल्लेखं कृत्वा अवदत् यत् अस्यां प्रारम्भसंस्थायां कार्यरतजनानाम् औसतवयः अष्टाविंशतिवर्षाणि अस्ति। एतत् दर्शयति यत् भारतस्य युवानां क्षमता आकाङ्क्षा च अन्तरिक्षवत् अनन्ता अस्ति।

सः अवदत्, एताः उपलब्धयः भारतं आत्मविश्वासेन परिपूरयन्ति तथा विश्वे भारतस्य प्रतिष्ठां सर्वमान्यां कुर्वन्ति। सुधारद्रुतयानस्य कारणेन एव युवानः अद्य एतादृशं महत् कार्यं कर्तुं समर्थाः अभवन्।

---------------

Hindusthan Samachar / Dheeraj Maithani