Enter your Email Address to subscribe to our newsletters


नवदेहली, २० जुलाईमासः (हि.स.)। राष्ट्रपतिः द्रौपदी-मुर्मु: त्रिराष्ट्राणां राजकीययात्रायाः प्रथमचरणे सोमवासरे मोल्दोवा-देशस्य राजधानीं चिशिनाउ-नगरम् प्राप्तवती। तत्र अन्ताराष्ट्रिय-विमानपत्तने मोल्दोवा-देशस्य उपप्रधान-मन्त्री विदेशमन्त्री च मिहाई-पोपशोई इत्यनेन तासां सस्नेहं स्वागतं कृतम्। एषा कस्यापि भारतीयराष्ट्रपतेः मोल्दोवा-देशस्य प्रथमा यात्रा अस्ति।
विदेशमन्त्रालयस्य प्रवक्ता रणधीर-जायसवालः सामाजिकमाध्यम-मञ्चे एक्स इति राष्ट्रपतेः मुर्मु-महोदयायाः मोल्दोवा-देशप्राप्तेः सूचनां प्रकाशितवान्।
राष्ट्रपतेः आधिकारिक-एक्स-लेखे लिखितम् यत् राष्ट्रपतिः मुर्मु मोल्दोवा-, उत्तर-मैसेडोनिया- तथा रोमानिया-देशानां राजकीययात्रायाः प्रथमचरणे मोल्दोवा-देशस्य राजधानीं चिशिनाउ-नगरम् प्राप्तवती, यत्र मोल्दोवा-देशस्य उपप्रधान-मन्त्री विदेशमन्त्री च मिहाई-पोपशोई इत्यनेन तासां हार्दिकं स्वागतं कृतम्।
राष्ट्रपतिः मुर्मु: सोमवासरे मोल्दोवा-देशस्य राष्ट्रपत्या माया-सैंडू-महोदयया सह शिष्टमण्डल-स्तरीयां वार्तां करिष्यति। तदतिरिक्तं सा मोल्दोवा-देशस्य संसदः अध्यक्षम् इगोर-ग्रोसु इत्येनेन मेलिष्यति तथा मोल्दोवा-भारत-संसदीय-मैत्री-समूहस्य सदस्यैः सह संवादं करिष्यति। तस्याः व्यापार-मञ्चस्य सम्बोधनं, मोल्दोवा-देशे निवसद्भिः भारतीय-समुदायस्य सदस्यैः सह साक्षात्कार: च अपि कार्यक्रमे अन्तर्भूतः अस्ति।
उल्लेखनीयम् अस्ति यत् राष्ट्रपतिः मुर्मु: १९ तः २५ जुलाईमासपर्यन्तं मोल्दोवा-, उत्तर-मैसेडोनिया- तथा रोमानिया-देशानां राजकीययात्रायाम् अस्ति। यात्रायाः द्वितीयचरणे सा २१ जुलाईमासे उत्तर-मैसेडोनिया-देशं गमिष्यति, यत्र राष्ट्रपत्या गोर्डाना-सिलजानोव्स्का-दावकोवा-महोदयया सह द्विपक्षीयवार्तां करिष्यति। सा प्रधानमन्त्री ह्रिस्टिजन-मिकोस्की इत्येनं मेलिष्यति, उत्तर-मैसेडोनिया-देशस्य संसदं सम्बोधयिष्यति तथा भारत-उत्तर-मैसेडोनिया-व्यापार-मञ्चे अपि सहभागिनी भविष्यति।
यात्रायाः अन्तिमचरणे राष्ट्रपतिः २३ जुलाईमासे रोमानिया-देशं गमिष्यति। तत्र सा राष्ट्रपतिना, अन्तरिम-प्रधानमन्त्रिणा तथा सीनेट-अध्यक्षेन सह मेलिष्यति। तथा च भारत-रोमानिया-संसदीय-मैत्री-समूहस्य सदस्यैः सह संवादं करिष्यति, भारत-रोमानिया-व्यापार-मञ्चं सम्बोधयिष्यति तथा भारतीयसमुदायस्य सदस्यैः सह अपि साक्षात्कारं करिष्यति।
Hindusthan Samachar / Divya Ranjan