पञ्चायतेषु लोकसेवा-आयोगस्य माध्यमेन एकादशसहस्र-नियुक्तयः भविष्यन्ति : दिलीप-घोषः
कोलकातानगरम्, २० जुलाईमासः (हि.स.)। पश्चिमबङ्गराज्ये पञ्चायतेषु कर्मकराणां न्यूनतां निवारयितुं राज्यसर्वकारेण एकादशसहस्र पदेषु नियुक्तीनां प्रक्रिया आरब्धा अस्ति। पञ्चायतमन्त्री दिलीप-घोषः सोमवासरे अवदत् यत् अधुना पञ्चायतविभागे नियुक्तयः लोकसेवा-आय
कैबिनेट मंत्री दिलीप घोष


कोलकातानगरम्, २० जुलाईमासः (हि.स.)। पश्चिमबङ्गराज्ये पञ्चायतेषु कर्मकराणां न्यूनतां निवारयितुं राज्यसर्वकारेण एकादशसहस्र पदेषु नियुक्तीनां प्रक्रिया आरब्धा अस्ति। पञ्चायतमन्त्री दिलीप-घोषः सोमवासरे अवदत् यत् अधुना पञ्चायतविभागे नियुक्तयः लोकसेवा-आयोगस्य माध्यमेन केन्द्रीयस्तरे करिष्यन्ते।

विधानसभायां पत्रकारैः सह संवादं कुर्वन् मन्त्री अवदत् यत् कर्मकराणां न्यूनतायाः कारणेन पञ्चायतानां कार्याणि प्रभावितानि भवन्ति। एतत् दृष्ट्वा राज्यसर्वकारेण अस्मिन्नेव वर्षे नियुक्ति-प्रक्रियाम् आरब्धुं निर्णयः कृतः। दिसम्बरमासपर्यन्तम् अस्याः आवश्यक-प्रक्रिया आरभस्यते।

तेन उक्तं यत् अद्यावधि पञ्चायत-अधिनियमानुसारं जनपदस्तरे नियुक्तयः क्रियमाणाः आसन्, किन्त्वधुना अस्मिन् परिवर्तनं क्रियते। यतः लोकसेवा-आयोगः स्वायत्तसंस्था अस्ति, अतः पञ्चायत-नियुक्तीनां दायित्वं तस्मै समर्पयितुं पूर्वं विधौ संशोधनम् आवश्यकं भविष्यति। एतदर्थम् आवश्यकविधायी-प्रक्रिया अपि दिसम्बरमासे आरभस्यते।

दिलीप-घोषः अवदत् यत् राज्ये सत्तापरिवर्तनानन्तरं मुख्यमन्त्रिणा एकलक्ष-रोजगार-प्रदानस्य आश्वासनं दत्तम् आसीत्। पञ्चायतविभागस्य एषा नियुक्तिप्रक्रिया तस्यैव दिशि महत्त्वपूर्णः पदक्षेपः अस्ति।

उल्लेखनीयम् अस्ति यत् राज्यस्य अनेकेषु पञ्चायत-क्षेत्रेषु प्रशासनिक-कर्मकराणां न्यूनतायाः कारणेन विकासकार्याणि प्रभावितानि सन्ति। बहवः पञ्चायत-मण्डलाः भङ्गीकृताः सन्ति तथा अनेकेषु स्थानेषु प्रशासकाः नियुक्ताः सन्ति। निर्वाचित-प्रतिनिधीनाम् अनुपस्थितेः कर्मकराणां न्यूनतायाश्च कारणेन अनेकाः योजनाः अद्यापि प्रलम्बिताः सन्ति। एतामेव स्थितिं दृष्ट्वा राज्यसर्वकारेण पञ्चायत-विभागे बृहत्प्रमाणे नियुक्तीनां निर्णयः कृतः।

Hindusthan Samachar / Divya Ranjan