Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 20 जुलाईमासः (हि.स.)।
उधमसिंहनगरजनपदस्य खटीमाक्षेत्रे ईसाईधर्मम् अङ्गीकृतवन्तः केचन परिवाराः पुनः हिन्दूधर्मं प्रति प्रत्यागमनस्य क्रमं निरन्तरं वहन्ति। ग्रामपञ्चायत्यां नौगवांनाथ इति ग्रामे थारूजनजातेः अष्ट परिवाराणां सप्तचत्वारिंशत् सदस्याः स्वेच्छया सोमवासरे हिन्दूधर्मे पुनः प्रविष्टाः। अनेन सह गतचतुर्षु दिनेषु हिन्दूधर्मं प्रत्यागतानां संख्या त्रिपञ्चाशदधिकशतम् अभवत्।
ग्रामप्रधाना माया चन्द अवदत् यत् सर्वे जनाः हवनयज्ञेन वैदिकविधिविधानैः सह स्वेच्छया हिन्दूधर्मे पुनरपि स्वीयां श्रद्धां व्यक्तवन्तः। सा अवदत् यत् अयं कार्यक्रमः ग्रामपञ्चायत्याः भारतीयजनतापक्षस्य चकरपुरग्रामीणमण्डलस्य च संयुक्तप्रयासेन आयोजितः।
सा अवदत् यत् गतदिनेषु कुटरीक्षेत्रे ईसाईधर्मम् अङ्गीकृतवन्तः थारूजनजातेः जनाः श्रावणमासस्य आरम्भे एव हवनयज्ञं कृत्वा हिन्दूधर्मे पुनः प्रत्यागतवन्तः। ग्रामप्रधानायाः दीपा देव्याः नेतृत्वे सप्ततिः परिवाराः हिन्दूरीतिरिवाजानुसारं पण्डितेन हरीशजोशिना साधुना मोहनगिरिणा च हिन्दूधर्मे पुनः प्रविष्टाः। प्रधाना अवदत् यत् एते थारूजनजातीयाः जनाः प्रलोभ्य ईसाईधर्मम् अङ्गीकर्तुं प्रेरिताः आसन्, किन्तु उत्तराखण्डसर्वकारस्य कठोरधर्मान्तरणनिरोधिनियमस्य प्रवर्तनानन्तरम् एते स्वधर्मे पुनः प्रत्यागतवन्तः।
धर्मान्तरणनियमः सर्वोच्चन्यायालयस्य निर्देशाश्च
उत्तराखण्डस्य पुष्करसिंहधामीसर्वकारेण राज्ये कठोरः धर्मान्तरणनिरोधिनियमः प्रवर्तितः अस्ति, यस्मिन् दशवर्षपर्यन्तकारावासस्य एककोटिरूप्यकाधिकदण्डस्य च व्यवस्था विद्यते। तथा च सर्वोच्चन्यायालयस्यापि निर्देशः अस्ति यत् धर्मं परिवर्तितवन्तः जनजातिसमाजस्य जनाः शासकीयसुविधाभ्यः सेवासु आरक्षणादिलाभेभ्यश्च वञ्चिताः भविष्यन्ति।
अस्यैव क्रमस्य अन्तर्गतं उधमसिंहनगरप्रशासनेन धर्मान्तरणं कारितवन्तः जनाः विरुद्धं वैधानिकी कारवाई कृता, ते कारागारं प्रेषिताश्च। धर्मपरिवर्तनं कृतवन्तः थारूबुक्सा जनजातिसमाजस्य जनानां जनजातिप्रमाणपत्राणां निरस्तीकरणस्य प्रक्रिया अपि तीव्रा कृता। ततः प्रभृति थारूराणाबुक्सा जनजातिसमाजस्य जनाः ईसाईधर्मात् गृहप्रत्यागमनं कृत्वा पुनः सनातनधर्मे श्रद्धां स्थापयितुं अग्रे सरन्ति।
Hindusthan Samachar / Dheeraj Maithani