Enter your Email Address to subscribe to our newsletters


अजमेरम्, 20 जुलाईमासः(हि.स.)।
राजस्थानलोकसेवायोगस्य अध्यक्षः लेफ्टिनेन्टकर्णल केसरीसिंहः अवदत् यत् वर्तमानकाले अस्माकं परिचयः जात्या धर्मेण वर्गेण समाजेन वा न भवति अपितु राष्ट्रहिते कार्यरतस्य आयोगस्य दलसदस्यत्वेन भवति। आयोगस्य कार्यप्रणाल्यां शुचिता पारदर्शिता समयबद्धता च सर्वोच्चप्राथमिकताः सन्ति।
लेफ्टिनेन्टकर्णल केसरीसिंहः सोमवासरे आयोगस्य सम्मेलनकक्षे आयोजिते संवादसत्रे उपसचिवपदात् उच्चस्तरपर्यन्तं सर्वैः अधिकारिभिः सह विस्तृतां सार्थकां च चर्चाम् अकरोत्। अस्मिन् अवसरे तेन आयोगस्य कार्याणि अधिकानि सुदृढानि प्रभावशालीनि च कर्तुं तथा आगामिनां भर्तीपरीक्षाणां साक्षात्काराणां च समयबद्धनिर्विघ्नायोजनार्थं प्रभावशालिप्रतिपुष्टिव्यवस्थायाः कृते कार्ययोजनानिर्माणे विशेषः बलः दत्तः। सः अवदत् यत् सदस्येषु अधिकारिषु च दृढः समन्वयः स्थापनीयः। यदा आयोगस्य सम्पूर्णदलम् आन्तरिकप्रक्रियाभिः सुरक्षामानकैः प्रौद्योगिकीपक्षैः च सम्यक् परिचितं भविष्यति तदा एव वयं प्रदेशस्य लक्षशः युवानां विश्वासे अधिकदृढतया सफलाः भविष्यामः। सः पुनरुक्तवान् यत् आयोगस्य स्पष्टलक्ष्यम् अस्ति यत् सर्वाः भर्तीपरीक्षाः साक्षात्काराश्च निर्धारितसमयसीमायाः अन्तः पूर्णनिष्पक्षतया सम्पन्नाः भवेयुः तथा एतदर्थं प्रौद्योगिक्याः अधिकतमोपयोगे विशेषः बलः भवेत्। आयोगेन अर्वाचीनकाले द्वादशलक्षाधिकपञ्जीकृताभ्यर्थिनां कृते वरिष्ठाध्यापकप्रतियोगितापरीक्षा २०२५ इत्यस्याः सुरक्षितं सफलं च आयोजनं जुलाईमासस्य १२ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं कृतम्। एतदर्थं आयोगस्य दलस्य परीक्षायोजनायां संलग्नस्य प्रत्येकस्य कार्मिकस्य च तेन प्रशंसा कृता।
उल्लेखनीयम् अस्ति यत् अध्यक्षस्य लेफ्टिनेन्टकर्णल केसरीसिंहस्य पहलया सोमवासरे सदस्यानां कृते विशेषपरिचयकार्यक्रमस्य कार्यालयनिरीक्षणकार्यक्रमस्य च आयोजनं कृतम्। अस्य कार्यक्रमस्य उद्देश्यं आयोगस्य कार्यप्रणाल्याः संगठनात्मकसंरचनायाः प्रौद्योगिकीप्रक्रियाणां विभागीयदायित्वानां च प्रत्यक्षपरिचयेन उत्तमसमन्वयस्य स्थापना आसीत्।
कार्यक्रमस्य प्रथमचरणे अध्यक्षस्य कक्षे परिचयात्मकोपवेशनम् आयोजितम्। अस्मिन् अवसरे आयोगस्य संयुक्तसचिवेन विस्तृतं प्रस्तुतीकरणं कृतम्। अस्मिन् आयोगस्य सम्पूर्णसंगठनात्मकसंरचना राजपत्रितानाम् अराजपत्रितानां च पदानाम् अद्यतनस्थितिः विभिन्नविभागानां कार्यक्षमता तेषां विशिष्टदायित्वानां च रूपरेखा प्रस्तुता। अस्य मूलोद्देश्यं नवाचारान् स्वीकृत्य आयोगस्य कार्यप्रणाल्यां पूर्णपारदर्शितां उत्तरदायित्वं च सुनिश्चितीकर्तुम् आसीत्।
ततः परं सर्वेषां सदस्यानां वरिष्ठोपसचिवैः सह परिचयः कारितः। वरिष्ठोपसचिवैः सह सदस्याः उच्चाधिकारीणः च कार्यालयस्य विभिन्नान् महत्त्वपूर्णविभागान् क्रमशः अवलोक्य कार्यप्रणाल्याः सूक्ष्मतया परीक्षणम् अकुर्वन्। भ्रमणकाले आयोगाध्यक्षेन सम्बन्धितविभागप्रभारिभ्यः अधिकारिभ्यश्च कार्ये गतिवर्धनाय गोपनीयतारक्षणाय यथार्थतासुनिश्चितीकरणाय च स्थले एव आवश्यकनिर्देशाः प्रदत्ताः। अस्य सम्पूर्णस्य परिचयनिरीक्षणकार्यक्रमस्य समये आयोगस्य सर्वे सदस्याः आयोगसचिवः मुख्यपरीक्षानियन्त्रकः संयुक्तसचिवः विधिपरामर्शदाता वित्तीयपरामर्शदाता अन्ये वरिष्ठाधिकारिणश्च प्रमुखरूपेण उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani