Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 20 जुलाईमासः (हि.स.)।
वर्षाकालीनसंसदसत्रस्य प्रथमदिने अद्य प्रस्तावितं संसदमार्चं दृष्ट्वा राष्ट्रराजधान्यां सुरक्षाव्यवस्था दृढीक्रता अस्ति। अस्मिन् मध्ये समाजसेवकः सोनम वाङ्चुकः स्वस्य अनशनसमापनार्थं तिस्रः शर्तयः स्थापितवान्।
सामाजिकमाध्यमेषु प्रकाशिते सन्देशे वाङ्चुकः उक्तवान् यत् सः २० जुलै दिनाङ्के स्वस्य अनशनं तदैव समापयिष्यति यदा तासु तिसृषु शर्तासु काचित् एका पूर्येत। अपरतः तस्य पत्नी निजचिकित्सालये तस्य स्थानान्तरणस्य आग्रहं कृत्वा दिल्ली उच्चन्यायालयस्य खण्डपीठस्य शरणं गता अस्ति।
सोनम वाङ्चुकस्य कथनम् अस्ति यत् सः तदैव अनशनं समापयिष्यति यदि सर्वकारः शिक्षाव्यवस्थायाः विफलतां प्रश्नपत्रप्रस्रवणादीनां घटनानां च उत्तरदायित्वं स्वीकरोति। अथवा चेत् सीजेपी नेतृत्वं संसदः प्रवेशद्वारपर्यन्तं प्राप्नुयात् तथा विभिन्नदलानां सांसदाः तम् आश्वासयेयुः यत् ते एतं विषयं संसदि उत्थापयिष्यन्ति। अथवा यदि स्वास्थ्यकारणैः अन्यैः कारणैः वा सः एतत् कर्तुं समर्थः न भवति तर्हि विभिन्नदलानां सांसदाः चिकित्सालयं गत्वा तमेव आश्वासनं दद्युः।
अपरतः दिल्ली मेट्रो रेल निगमेन सुरक्षाकारणानि निर्दिश्य जनपथ, राजीव चौक, पटेल चौक, केन्द्रीयसचिवालय तथा सेवा तीर्थ मेट्रो स्थानकानि अग्रिमादेशपर्यन्तं सामान्ययात्रिकेभ्यः पिहितानि भविष्यन्तीति घोषणा कृता अस्ति।
संसदमार्चस्य दृष्ट्या संसदपरिसरे तस्य समीपवर्तिषु क्षेत्रेषु च सुरक्षा अधिका कृता अस्ति। दिल्ली पुलिसबलम्, रैपिड एक्शन फोर्स तथा वज्रयानानि नियुक्तानि सन्ति। संसदमार्ग पुलिसथानाक्षेत्रस्य परितः अवरोधकपट्टिकाः अपि स्थापिताः सन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani