Enter your Email Address to subscribe to our newsletters

ईस्ट रदरफोर्ड (न्यू जर्सी), 20 जुलाईमासः (हि.स.)।
यूरोपीयचैम्पियनदलम् स्पेनदेशस्य दलं रोमाञ्चकपूर्णे अन्तिमस्पर्धायां गतविजेतारं अर्जेन्टीनादेशस्य दलम् अद्य प्रातःकाले भारतीयसमयानुसारम् अतिरिक्तसमये १–० इति परिणामेन पराजित्य द्वितीयवारं फीफाविश्वकपस्य उपाधिं स्वनाम्नि कृतवान्।
अतिरिक्तसमयस्य १०६ तमे निमेषे फेरानटोरेसः विजयीगोलं कृत्वा स्पेनदेशाय २०१० वर्षात् परं प्रथमं तथा समग्रतया द्वितीयं विश्वकपविजयं प्राप्तवान्।
बार्सिलोनादलस्य प्रमुखः अग्रक्रीडकः फेरानटोरेसः ६२ तमे निमेषे मिकेलओयारजाबालस्य स्थाने क्रीडाङ्गणं प्रविष्टवान्। अतिरिक्तसमये निकोविलियम्सः पेड्रोपोरोस्य क्रॉसप्रेषणात् उत्कृष्टं शीर्षप्रहारं कृतवान्, यं अर्जेन्टीनादेशस्य दलं सम्यक् निराकर्तुं न अशक्नोत्। ततः कन्दुकः फेरानटोरेसस्य समीपम् आगतः, तेन च समीपात् गोलं कृत्वा स्पेनदेशस्य दलं अग्रतां प्राप्तवान्।
अस्य पूर्वं स्पर्धायाः प्रवाहः ९० तमे निमेषे परिवर्तितः, यदा अर्जेन्टीनादेशस्य मध्यक्रीडकः एन्जोफर्नाण्डीजः स्पेनदेशस्य युवा रक्षकक्रीडकं पाउकुबार्सी इत्येनं प्रति भीषणं दोषकर्म अकरोत्। निर्णायकः स्लावकोविन्चिचः तस्मै द्वितीयं पीतपत्रं प्रदर्श्य रक्तपत्रमपि अददात्। ततः अर्जेन्टीनादेशस्य दलं अवशिष्टां स्पर्धां केवलं दशक्रीडकैः सह एव अक्रीडत्।
समग्रस्पर्धायां स्पेनदेशस्य दलस्य प्रभुत्वमेव दृष्टम्। स्पेनदेशस्य दलं निरन्तरम् आक्रमणानि कृतवान् तथा बहूनि गोलसाधनस्य अवसरान् निर्मितवान्, किन्तु तस्य सफलता अतिरिक्तसमयपर्यन्तं न अभवत्। अपरतः अर्जेन्टीनादेशस्य दलं स्पेनदेशस्य सुदृढरक्षणपङ्क्तेः पुरतः संघर्षं कुर्वन् दृष्टः।
प्रभावं स्थापयितुं मेसी असफलः। लियोनेलमेसी अपि अस्यां स्पर्धायां विशेषप्रभावं स्थापयितुं न अशक्नोत्। अर्जेन्टीनादेशस्य प्रथमः प्रहारः ११७ तमे निमेषे अभवत्, यदा मेसीकृतः प्रयासः स्पेनदेशस्य क्रीडकैः निरुद्धः।
निरन्तरं द्वितीयविश्वकपविजयस्य आशां धारयन्ती अर्जेन्टीनादेशस्य दलं १९६२ वर्षात् परं प्रथमवारं विश्वकपस्य सफलरक्षकदलम् भवितुम् अपि न अशक्नोत्।
स्पर्धायाः अन्तिमनिमेषेषु अर्जेन्टीनादेशस्य दलं समतां प्राप्तुं प्रबलप्रयत्नान् अकरोत्, किन्तु स्पेनदेशस्य क्रीडकाः उत्कृष्टरक्षणं कृत्वा स्वाग्रतां रक्षितवन्तः तथा इतिहासं रचितवन्तः।
एषः अष्टचत्वारिंशत्दलयुक्तस्य अद्यावधि बृहत्तमस्य फीफाविश्वकपस्य १०४ तमः तथा अन्तिमः स्पर्धामेलनः आसीत्, यस्य संयुक्तरूपेण अमेरिका, कनाडा तथा मेक्सिकोदेशैः आतिथ्यं कृतम्। अस्मिन् स्पर्धायां समग्रतया ३०७ गोलाः अभवन्, ये विश्वकपेतिहासे सर्वाधिकाः सञ्जाताः।
अन्तिमस्पर्धां द्रष्टुं क्रीडाक्षेत्रस्य मनोरञ्जनक्षेत्रस्य च अनेकाः प्रमुखाः व्यक्तयः क्रीडाङ्गणम् आगतवन्तः। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्डट्रम्पः अपि स्पर्धासमये उपस्थितः आसीत् तथा पुरस्कारवितरणसमारोहे सहभागं कृतवान्।
समापनसमारोहे प्रसिद्धगायकः पोस्टमेलोनः स्वप्रस्तुतिं प्रदत्तवान्। अर्धकालीनकार्यक्रमे जस्टिनबीबरः, मैडोना, शकीरा, बीटीएस, बर्नाबॉय इत्यादयः अनेकाः वैश्विककलाकाराः बहुरङ्गकार्यक्रमं प्रस्तुतवन्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani