Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 20 जुलाईमासः (हि.स.)। दूरसञ्चारनियामकप्राधिकरणेन (टीआरएआई) जूनमासे मुम्बईनगरे कृते चलदूरभाषजालगुणवत्तापरीक्षणे रिलायन्स् जियो तथा भारती एयरटेल इत्येतयोः प्रदर्शनं सर्वोत्कृष्टं सिद्धम्, यदा तु सरकारीया संस्था एमटीएनएल इत्यस्य जालं सर्वाधिकं दुर्बलं प्राप्तम्। अस्मिन् परीक्षणे दूरभाषाह्वानगुणवत्ता, जालव्याप्तिः, दत्तांशवेगश्च इत्यादीनां विविधमानदण्डानाम् आकलनं कृतम्।
केन्द्रीयसञ्चारमन्त्रालयेन प्रदत्तसूचनानुसारं जालव्याप्तेः विषये एयरटेल इत्यस्य जाले १०२ नमूनेषु व्याप्त्यभावः अभिलक्षितः, यदा तु जियो इत्यस्य जाले एषा संख्या १४४ आसीत्। वोडाफोन-आइडिया (वीआई) इत्यस्य जाले केवलं पञ्चसु स्थानेषु व्याप्त्यभावः प्राप्तः, यदा तु एमटीएनएल इत्यस्य प्रदर्शनं सर्वाधिकं दुर्बलं सिद्धम् तथा तस्य जाले १७,८७७ नमूनेषु व्याप्त्यभावः अभिलेखितः।
दूरभाषाह्वानविच्छेदस्य (कॉल ड्रॉप) विषये जियो इत्यनेन सर्वोत्कृष्टं प्रदर्शनं प्रदर्शितम्। परीक्षणकाले तस्य जाले एकोऽपि दूरभाषाह्वानविच्छेदः न अभिलेखितः। एयरटेल तथा वीआई इत्येतयोः जाले एकैकः दूरभाषाह्वानविच्छेदः अभिलेखितः, यदा तु एमटीएनएल इत्यस्य जाले २८ दूरभाषाह्वानविच्छेदाः प्राप्ताः।
दूरभाषाह्वानकाले ध्वनिनिरोधस्य (कॉल साइलेंस) समस्या एयरटेल इत्यस्य जाले १४ वारं अभिलेखिता। जियो तथा वीआई इत्येतयोः जाले एषा समस्या केवलम् एकैकवारमेव अभवत्। एमटीएनएल इत्यस्य विषये अस्मिन् सम्बन्धे किमपि उल्लेखनीयं प्रदर्शनं न अभिलेखितम्।
चलदूरभाषान्तर्जालवेगस्य विषयेऽपि जियो सर्वाग्रे स्थितः। तस्य औसत-अवतरणवेगः २३७.८१ एमबीपीएस तथा औसत-उन्नयनवेगः ४०.९२ एमबीपीएस अभिलेखितः। एयरटेल इत्यस्य औसत-अवतरणवेगः ९३.७६ एमबीपीएस तथा उन्नयनवेगः २५.९२ एमबीपीएस आसीत्। वीआई इत्यनेन ७०.६९ एमबीपीएस अवतरणवेगः तथा २५.५७ एमबीपीएस उन्नयनवेगः अभिलेखितः। एमटीएनएल इत्यस्य जालस्य दत्तांशप्रदर्शनं तु उपलब्धं नाभवत्।
सञ्चारमन्त्रालयस्य अनुसारम् एतत् स्वतन्त्रगुणवत्तापरीक्षणं जूनमासस्य १० तः १२ दिनाङ्कपर्यन्तं मुम्बईनगरे २०४.३ किलोमीटरदीर्घे मार्गे तथा सप्तसु प्रमुखसार्वजनिकस्थलेषु सम्पन्नम्। परीक्षणे बांद्रा-वर्ली सी-लिंक, महिम, दादर, सायन, वर्ली, परेल, हाजी अली, मुम्बई सेन्ट्रल, बायकुला, गिरगांव तथा चर्चगेट इत्यादयः प्रमुखप्रदेशाः समाविष्टाः। एतेषां अतिरिक्तं बायकुला रेलस्थानकम्, छत्रपति शिवाजी महाराज टर्मिनस् (सीएसएमटी), चर्चगेट रेलस्थानकम्, दादर रेलस्थानकम्, गेटवे ऑफ इंडिया, मरीन ड्राइव तथा परेल रेलस्थानकेष्वपि जालगुणवत्तायाः परीक्षणं कृतम्।
उल्लेखनीयं यत् टीआरएआई समये समये देशस्य विभिन्नेषु नगरेषु चलदूरभाषजालस्य गुणवत्तायाः स्वतन्त्रं मूल्याङ्कनं करोति, येन उपभोक्तृभ्यः उत्तमाः दूरसञ्चारसेवाः प्रदातुं शक्यन्ते तथा सेवाप्रदातॄणां प्रदर्शनस्य निष्पक्षमूल्याङ्कनमपि सुनिश्चितं भवति।---------------
Hindusthan Samachar / Dheeraj Maithani