परिश्रमेण क्रीड्यतां, पदकम् अर्ज्यतामव अथ च सर्वकारीनियुक्तौ प्राथमिकता गृह्यताम्: मुख्यमंत्री योगी
लखनऊ, 20 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे जनतादर्शने सर्वैः जनैः सह एकैकशः समागत्य तेषां कुशलक्षेमम् अपृच्छत्, पीडां श्रुतवान्, प्रार्थनापत्राणि स्वीकृतवान् तथा समुचितनिराकरणस्य आश्वासनम् अपि दत्तवान्। राजस्वविभागस्य पुलिसवि
लहकक


जनता दर्शन में सुनवाई करते मुख्यमंत्री योगी


लखनऊ, 20 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे जनतादर्शने सर्वैः जनैः सह एकैकशः समागत्य तेषां कुशलक्षेमम् अपृच्छत्, पीडां श्रुतवान्, प्रार्थनापत्राणि स्वीकृतवान् तथा समुचितनिराकरणस्य आश्वासनम् अपि दत्तवान्। राजस्वविभागस्य पुलिसविभागस्य च विषयेषु विलम्बस्य शिकायतिषु मुख्यमन्त्री कठोरताम् अपि प्रदर्शितवान्। अभिभावकैः सह आगतान् बालकान् योगी चाकलेटेन सत्कृतवान् तथा मनोयोगेन अध्ययनं कर्तुं तान् प्रेरितवान्।

यूयं पदकानि प्राप्नुत, वयं नियुक्तौ प्राथमिकतां दास्यामः

जनतादर्शने मुख्यमन्त्रिणः समीपं बहवः क्रीडकाः अपि आगतवन्तः। सर्वे स्वस्वविषयान् निवेदितवन्तः। योगी अपि तेषां क्रीडाप्रस्तुतिं पदकप्राप्तेः विषये च पृष्टवान्। सकारात्मकम् उत्तरं न लब्ध्वा मुख्यमन्त्री अवदत् यत् यूयं सर्वे परिश्रमं कुर्वन्तु। उत्तरप्रदेशसर्वकारः क्रीडकानां निरन्तरं प्रत्यक्षनियुक्तिं करोति। अनेके क्रीडकाः उपपुलिसाधीक्षकपदे तहसीलदारपदे तथा अन्येषु पदेषु नियुक्ताः सन्ति। यूयम् अपि अन्तरराष्ट्रीयस्तरे पदकानि प्राप्नुत। ततः सर्वकारः पुरस्कारधनराशिं नियुक्तिं च प्रदास्यति। एतदर्थं महान् परिश्रमः आवश्यकः। मुख्यमन्त्री क्रीडया उत्कर्षं प्राप्तुं क्रीडकेभ्यः आशीर्वादम् अददात्।

पारिवारिकविवादाः गृहे एव समाधानं प्राप्नुयुः, बाह्यानां हस्तक्षेपः समुचितः नास्ति

जनतादर्शने पारिवारिकविवादसम्बद्धाः अपि केचन विषयाः प्रस्तुताः। अस्मिन् विषये मुख्यमन्त्री विस्तरेण सूचनाम् अलभत। ततः शिकायतिपत्रं समर्पयितॄणां जनानां समुपदेशनं कृत्वा तेषां दुष्परिणामान् विषये सावधानतां प्रदर्शितवान्। सः अवदत् यत् एतेषां विवादानां प्रतिकूलः प्रभावः बालकेषु अपि भवति। अतः गृहे ज्येष्ठजनानां सन्निधौ उपविश्य एते विवादाः समाधेयाः। निजीविषयेषु बाह्यानां जनानां सहभागिता न करणीया।

मुख्यमन्त्री योगी विलम्बे कठोरतां प्रदर्शितवान्

मुख्यमन्त्रिणः समक्षं राजस्वविभागस्य पुलिसविभागस्य च विषयाः अपि प्रस्तुताः। तेषु सः प्रकरणस्य सम्पूर्णां सूचनाम् अपृच्छत्। पुलिसकर्मचारिणः अथवा राजस्वकर्मचारिणः समीपे कियत्पूर्वं शिकायतिः कृता इति अपि पृष्टवान्। अत्यधिककालस्य व्यतीते मुख्यमन्त्री कठोरतां प्रदर्श्य अवदत् यत् एषः विलम्बः न सह्यः। समयसीमायाः अन्तर्गतं निस्तारणं न कुर्वतां अधिकारिणां कर्मचारिणां च विरुद्धं कार्यवाही भविष्यति।जनतादर्शने केषाञ्चन अभिभावकानां सह बालकाः अपि आगतवन्तः। मुख्यमन्त्री तेषां नाम कक्षां च अपृच्छत्। तान् स्नेहेन सम्बोधितवान्, अनन्तरं चाकलेटम् अददात्। मुख्यमन्त्री बालकेभ्यः कतिपयान् प्रश्नान् अपि अपृच्छत्। ततः मनोयोगेन अध्ययनं कर्तुं तथा जीवने महान् यशः प्राप्तुम् आशीर्वादम् अददात्।

Hindusthan Samachar / Dheeraj Maithani