Enter your Email Address to subscribe to our newsletters


बाराबंकी, 20 जुलाईमासः (हि.स.)।मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे बाराबंकीजनपदे रविवासरे ५४२.४१ कोटिरूप्यकपरिमितमूल्यस्य ८२ विकासपरियोजनानां लोकार्पणं शिलान्यासं च अकरोत्। उत्तरभारते प्रसिद्धे तीर्थस्थले श्रीलोधेश्वरमहादेवधाम्नि आयोजिते कार्यक्रमे सः प्रदेशसर्वकारस्य विकासयोजनाभिः सह सांस्कृतिकविरासतसंरक्षणमपि शासनस्य प्राधान्यमिति प्रतिपादयन् अवदत् यत् विरासत सनातनधर्मस्य परिचायिका अस्ति।
मुख्यमन्त्री योगी अवदत् यत् भारतस्य संस्कृतेः सनातनपरम्परायाश्च संरक्षणार्थं विभिन्नेषु कालखण्डेषु अनेकैः महापुरुषैः स्वजीवनं समर्पितम्। अतः तेषां योगदानं कदापि विस्मर्तुं न शक्यते।
मुख्यमन्त्री अवदत् यत् राजा बलभद्रसिंहः लाखनपासी महाराजा बिजलीपासी च विदेशीयदास्यस्य विरुद्धं संघर्षम् अकुर्वन्। महाराजा सुहेलदेवः महाराणा प्रतापः छत्रपति शिवाजी महाराजः गुरु गोबिन्दसिंहः च राष्ट्रस्य धर्मस्य स्वाभिमानस्य च रक्षणार्थं स्वसर्वस्वं न्यवेदयन्। सः अवदत् यत् अद्य देशः एतान् महापुरुषान् श्रद्धया स्मरति। तैः भारतस्य स्वातन्त्र्यस्य संस्कृतेः सनातनमूल्यानां च संरक्षणकार्यं कृतम्।
मुख्यमन्त्री अवदत् यत् प्रदेशस्य द्वियन्त्रसर्वकारः विकासं विरासतं च सममहत्त्वेन पश्यति। श्रीलोधेश्वरमहादेवमन्दिरस्य कॉरिडोरनिर्माणम् पारिजातवृक्षस्य संरक्षणम् हॉकीक्रीडायाः जादूगर इति प्रसिद्धस्य केडी सिंह बाबोः हवेल्याः संरक्षणं च अस्यैव चिन्तनस्य परिणामः अस्ति। सः अवदत् यत् सर्वकारः धार्मिकानां ऐतिहासिकस्थानानां नूतनपरिचयं प्रदातुं कार्यं करोति। अनेन पर्यटनस्य अपि प्रोत्साहनं भविष्यति तथा स्थानीयजनानां कृते जीविकानान्नूतनाः अवसराः उपलब्धाः भविष्यन्ति।
जनसभायां मुख्यमन्त्री समाजवादीपक्षस्य पूर्वसर्वकारमपि लक्ष्यीकृत्य उक्तवान् यत् कदाचित् हॉकीक्रीडायाः महान् क्रीडकः केडी सिंह बाबोः हवेली विक्रयस्य स्थितिम् आगता आसीत्। एषः प्रदेशस्य कृते अत्यन्तं पीडाजनकः क्षणः आसीत्। भारतीयजनतापक्षस्य सर्वकारस्य गठनानन्तरं निर्णयः कृतः यत् हवेली विक्रयाय न दास्यते। सर्वकारेण तस्याः मूल्यं प्रदाय तस्याः संरक्षणकार्यं कृतम्। अधुना तस्य स्मृतिसंरक्षणस्य दिशि कार्यं प्रवर्तते।
मुख्यमन्त्री अवदत् यत् बहुवर्षपर्यन्तं श्रीलोधेश्वरमहादेवधाम्नः विकासस्य उपेक्षा कृता आसीत्। अधुना प्रदेशसर्वकारः महादेवकॉरिडोरनिर्माणेन अस्मै प्राचीनतीर्थाय नूतनपरिचयं ददाति। सः अवदत् यत् श्रद्धालूनां कृते उत्तमसुविधानां व्यवस्थया सह अस्य क्षेत्रस्य समग्रविकासे विशेषध्यानं दीयते।
कार्यक्रमे मुख्यमन्त्रिणा रामनगरविधानसभाक्षेत्रस्य ३६ परियोजनासु २८२.२८ कोटिरूप्यकपरिमितव्ययेन तथा दरियाबादविधानसभाक्षेत्रस्य ४६ परियोजनासु २६०.१२ कोटिरूप्यकपरिमितव्ययेन परियोजनानां लोकार्पणं शिलान्यासं च कृतम्। समग्रतया ५४२.४१ कोटिरूप्यकपरिमितव्ययेन ८२ परियोजनाभिः क्षेत्रे मार्गनिर्माणं पेयजलव्यवस्था शिक्षासुविधाः स्वास्थ्यसेवाः पर्यटनविकासः आधारभूतसुविधानां विस्तारश्च भविष्यति। सभायां बहुसंख्यया जनप्रतिनिधयः अधिकारिणः श्रद्धालवः च उपस्थिताः आसन्। मुख्यमन्त्री अन्ते अवदत् यत् उत्तरप्रदेशः अधुना विकासे सांस्कृतिकगौरवे च नूतनाम् अभिज्ञां प्राप्नोति तथा सर्वकारः एतेनैव संकल्पेन अग्रे गच्छति।
अस्य पूर्वं मुख्यमन्त्री योगी आदित्यनाथः मञ्चम् आगतवान् चेत् शङ्खध्वन्या तस्य स्वागतं कृतम्। हर हर महादेव इति जयघोषैः सम्पूर्णः पण्डालः गुञ्जितः अभवत्। कार्यक्रमे जिलाप्रभारीमन्त्री सुरेश राही खाद्यरसदराज्यमन्त्री सतीशचन्द्रशर्मा अनुसूचितजात्यायोगस्य अध्यक्षः वैद्यनाथरावतः एमएलसी अवनीशसिंहः एमएलसी अङ्गदसिंहः जिलापञ्चायताध्यक्षा राजरानीरावत् विधायकः हैदरगढ़ दिनेशरावतः पूर्वविधायकः रामनगर शरद अवस्थी प्रदेशोपाध्यक्षा पूर्वसांसदा प्रियंका सिंह रावत् प्रदेशमन्त्री अवधेश श्रीवास्तवः पूर्वजिलाध्यक्षः शशाङ्क कुशमेशः अमरीश रावतः राजकुमारी मौर्या इत्यादयः अनेकाः नेतारः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani