राष्ट्रपत्या सह त्रिराष्ट्राणां आधिकारिकयात्रायै केन्द्रीयराज्यमन्त्री निमुबेन-बंभाणिया प्रस्थिता
भावनगरम्, २० जुलाईमासः (हि.स.)। गुजरातराज्यस्य भावनगर-बोटाद-निर्वाचनक्षेत्रस्य सांसदः तथा उपभोक्तृकार्य-उर्वरक-एवं सार्वजनिक-वितरण-मन्त्रालयस्य केन्द्रीयराज्यमन्त्री निमुबेन-बंभाणिया अपि राष्ट्रपत्या द्रौपदी-मुर्मु-महोदयया सह विदेशभ्रमणस्य भारतीयप्
विदेशी यात्रा पर जाते केंद्रीय राज्य मंत्री निमुबेन बंभाणिया व सांसद टीम


भावनगरम्, २० जुलाईमासः (हि.स.)। गुजरातराज्यस्य भावनगर-बोटाद-निर्वाचनक्षेत्रस्य सांसदः तथा उपभोक्तृकार्य-उर्वरक-एवं सार्वजनिक-वितरण-मन्त्रालयस्य केन्द्रीयराज्यमन्त्री निमुबेन-बंभाणिया अपि राष्ट्रपत्या द्रौपदी-मुर्मु-महोदयया सह विदेशभ्रमणस्य भारतीयप्रतिनिधिमण्डलस्य सदस्यत्वेन समाविष्टा अस्ति। तया सह राज्यसभासांसदः डॉ. दिनेश-शर्मा तथा लोकसभासांसदः विजय-बघेलः अपि प्रतिनिधिमण्डलस्य सदस्यौ स्तः।

राष्ट्रपतिः द्रौपदी-मुर्मु मोल्दोवा, उत्तर-मैसेडोनिया तथा रोमानिया-देशयोः आधिकारिकयात्रायै प्रस्थिता अस्ति। अस्याः महत्त्वपूर्णायाः विदेशयात्रायाः प्रथमचरणे राष्ट्रपतिः मोल्दोवा-देशं गमिष्यति। एषा कस्यापि भारतीयराष्ट्रपतेः मोल्दोवा-देशस्य प्रथमा ऐतिहासिकयात्रा भविष्यति। अस्मिन् अवसरे सा मोल्दोवा-देशस्य राष्ट्रपतिना माया-सैंडू-महोदयया सह द्विपक्षीयवार्तां करिष्यति। तदतिरिक्तं संसदः अध्यक्षेन इगोर-ग्रोसु, संसदीय-मैत्री-समूहस्य सदस्यैः तथा भारतीयसमुदायस्य प्रतिनिधिभिः सह अपि साक्षात्कारं करिष्यति। राष्ट्रपतिः व्यापार-मञ्चम् अपि सम्बोधयिष्यति। द्वितीयचरणे २१ तः २२ जुलाईमासपर्यन्तं राष्ट्रपतिः उत्तर-मैसेडोनिया-देशस्य भ्रमणं करिष्यति। एषा अपि कस्यापि भारतीयराष्ट्रपतेः अस्य देशस्य प्रथमा आधिकारिकी यात्रा भविष्यति।

ततः परं २३ तः २५ जुलाईमासपर्यन्तं राष्ट्रपतिः रोमानिया-देशस्य यात्रायां भविष्यति, यत्र सा तत्रत्येन राष्ट्रपतिना, कार्यवाहक-प्रधानमन्त्रिणा तथा सीनेट-अध्यक्षेन सह द्विपक्षीयसम्बन्धान् विविधवैश्विक-क्षेत्रीयविषयांश्च अधिकृत्य चर्चां करिष्यति।

अस्य सम्पूर्णस्य विदेशभ्रमणस्य निमुबेन-बंभाणियायाः सहभागिता भावनगर-बोटाद-प्रदेशस्य गौरवस्य विषयः मन्यते। राष्ट्रपत्या द्रौपदी-मुर्मु-महोदयायाः एषा त्रिराष्ट्रयात्रा भारतस्य अन्ताराष्ट्रिय-सम्बन्धान् अधिकं सुदृढान् करिष्यति तथा व्यापार-निवेश-प्रौद्योगिकी-शिक्षा-नवाचार- तथा जन-जनयोः पारस्परिक-सहयोगस्य क्षेत्रेषु नूतनां दिशां गतिं च प्रदास्यति।

Hindusthan Samachar / Divya Ranjan