विश्वहिन्दूपरिषदि नवीन-दायित्वानां घोषणा : सुभद्र-पापडीवालः विश्वहिन्दूपरिषदः प्रान्ताध्यक्षः नियुक्तः
जयपुरनगरम्, २० जुलाईमासः (हि.स.)। विश्वहिन्दूपरिषदः केन्द्रीय-प्रबन्ध-समितेः द्विदिवसीया सभा १९ तथा २० जुलाईमासे २०२६ तमे वर्षे तेरापन्थ-भवने, छतरपुरे (नवदेहल्याम्) सम्पन्ना। अस्यां सभायां देशस्य विविधभागेभ्यः आगताः केन्द्रीय-पदाधिकारीणः तथा प्रबन्
विश्व हिंदू परिषद में नई दायित्व घोषणा:सुभद्र पापडीवाल बने विश्व हिंदू परिषद के प्रांत अध्यक्ष


जयपुरनगरम्, २० जुलाईमासः (हि.स.)। विश्वहिन्दूपरिषदः केन्द्रीय-प्रबन्ध-समितेः द्विदिवसीया सभा १९ तथा २० जुलाईमासे २०२६ तमे वर्षे तेरापन्थ-भवने, छतरपुरे (नवदेहल्याम्) सम्पन्ना। अस्यां सभायां देशस्य विविधभागेभ्यः आगताः केन्द्रीय-पदाधिकारीणः तथा प्रबन्ध-समितेः सदस्याः सहभागित्वम् अकुर्वन्। अस्मिन्नवसरे सङ्घटनस्य विविध-दायित्वानां घोषणा कृता।

राष्ट्रीय-स्वयंसेवक-सङ्घस्य वरिष्ठ-प्रचारकः आनन्दः विश्वहिन्दूपरिषदः जयपुर-क्षेत्रस्य क्षेत्रीय-सङ्घटन-मन्त्री नियुक्तः। आनन्दः अस्मात् पूर्वं पटना-क्षेत्रस्य क्षेत्रीय-सङ्घटन-मन्त्रिणः दायित्वं सफलतया निर्वुढवान्। सङ्घटनात्मक-जीवने सः अनेकानि महत्त्वपूर्णानि दायित्वानि निरवहन् अधुना जयपुर-क्षेत्रे सङ्घटनात्मक-कार्याणां नेतृत्वं करिष्यति।

तथैव सुभद्र-पापडीवालः विश्वहिन्दूपरिषदः जयपुर-प्रान्तस्य प्रान्ताध्यक्षः नियुक्तः। पापडीवालः पूर्वं जयपुर-प्रान्तस्य प्रान्त-उपाध्यक्षरूपेण सक्रियः आसीत्। सः उद्यमि-पृष्ठभूमेः सम्बद्धः अस्ति तथा विविधेषु औद्योगिक-सङ्घटनेषु महत्त्वपूर्णां भूमिकां निर्वहति। सः सीतापुरा-इण्डस्ट्रीज्-एसोसिएशन-इत्यस्य तथा यूकोरी इत्यस्य संस्थापक-संरक्षकः अपि अस्ति।

Hindusthan Samachar / Divya Ranjan