मुख्यमन्त्रिणा भजनलाल-शर्मणा साइबर-सुरक्षा-अभियानस्य विज्ञापन-पट्टिकायाः विमोचनम् कृतम्
जयपुरनगरम्, २० जुलाईमासः (हि.स.)। मुख्यमन्त्री भजनलाल-शर्मा सोमवासरे साइबर-सुरक्षा-अभियानस्य विज्ञापन-पट्टिकायाः विमोचनं कृत्वा अवदत् यत् वर्तमानः कालः डिजिटल-क्रान्तेः युगम् अस्ति। प्रौद्योगिक्या यत्र जीवनं सरलम् सुविधाजनकं च कृतम्, तत्रैव साइबर-अ
फोटोमुख्यमंत्री भजनलाल शर्मा ने किया साइबर सुरक्षा अभियान पोस्टर का विमोचन


जयपुरनगरम्, २० जुलाईमासः (हि.स.)। मुख्यमन्त्री भजनलाल-शर्मा सोमवासरे साइबर-सुरक्षा-अभियानस्य विज्ञापन-पट्टिकायाः विमोचनं कृत्वा अवदत् यत् वर्तमानः कालः डिजिटल-क्रान्तेः युगम् अस्ति। प्रौद्योगिक्या यत्र जीवनं सरलम् सुविधाजनकं च कृतम्, तत्रैव साइबर-अपराध-रूपाः नूतनाः समस्या: अपि समुत्पन्नाः सन्ति। सः अवदत् यत् साइबर-अपराधिनां विरुद्धं राज्यसर्वकारः दृढतया कार्यं करोति। एतदर्थं प्रदेशव्यापि साइबर-अपराधिनां परिचयः, तेषां ग्रहणं तथा तेषां जालस्य ध्वंसार्थं व्यापक-अभियानानि सञ्चाल्यन्ते।

मुख्यमन्त्री अवदत् यत् राज्यसर्वकारेण नवाचाराणां माध्यमेन साइबर-अपराधिनां विरुद्धं निरन्तरं नियन्त्रणं सुदृढं क्रियते। राज्ये राजस्थान-साइबर-क्राइम-कोऑर्डिनेशन-केन्द्रं (आर४सी) इत्यस्य माध्यमेन साइबर-अपराध-निवारणाय, अनुसन्धानाय, तकनीकी-समन्वयाय तथा विविध-अभिकरणानां मध्ये त्वरित-सूचना-विनिमयाय अत्याधुनिकः मञ्चः निर्मीयते। सहैव साइबर-हेल्पलाइन १९३० तथा ऑपरेशन-एण्टीवायरस इत्यादिभिः अभियानेभ्यः साइबर-पीडितेभ्यः त्वरित-सहायता प्रदीयते।

मुख्यमन्त्री प्रदेशवासिनः प्रति आह्वानं कृत्वा अवदत् यत् ते कस्यापि सन्दिग्ध-सङ्गमसूत्रस्य उपरि न क्लिक् कुर्वन्तु, ओटीपी, धनागार-विवरणं, पारिभाषिक-गुह्यशब्दं वा कस्यापि सह न सहभागं कुर्वन्तु तथा कस्यापि सन्दिग्ध-दूरभाष-आह्वानस्य सन्देशस्य वा प्रलोभने न पतन्तु। सः अवदत् यत् यदि कश्चित् साइबर-वंचनेन पीडितः भवति तर्हि सः त्वरिता सहायिका संख्या १९३० इत्यत्र सम्पर्कं कुर्यात् अथवा राष्ट्रिय-साइबर-अपराध-पटले सूचना: पञ्जीकुर्यात्। सः अवदत् यत् सुरक्षिताः नागरिकाः, सुरक्षितं डिजिटल-तन्त्रम्, सुरक्षितं राजस्थानम् इति संकल्पः राज्यसर्वकारस्य सर्वोच्च-प्राथमिकता अस्ति।

Hindusthan Samachar / Divya Ranjan