Enter your Email Address to subscribe to our newsletters


डेहरी आन सोनः, 20 जुलाईमासः (हि.स.)।
बिहारराज्यस्य रोहतासजनपदे स्थितस्य ऐतिहासिकस्य रोहतासगढदुर्गस्य तथा पर्वतीयग्रामाणां विकासः, पर्यटनसुविधानां विस्तारः, पर्वतीयप्रदेशेषु आधारभूतसंरचनानां सुदृढीकरणं च क्रियते। जिलाधिकारी दीपककुमारमिश्रः पुलिसाधीक्षकः रौशनकुमारः च ह्यः सायंकालपर्यन्तं स्थलीयनिरीक्षणानन्तरं एतां सूचनां माध्यमप्रतिनिधिभ्यः अददाताम्।
अस्मिन् अवसरे स्थानीयग्रामीणैः सह संवादः स्थापितः। तेषां समस्याः आवश्यकताश्च ज्ञाताः तथा सम्बन्धिताधिकारिभ्यः तासां समाधानं सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः। निरीक्षणक्रमे जिलाधिकारिणा रोहतासगढपञ्चायतभवनस्य समीपे स्थिते नवनिर्मिते अतिथिगृहे विविधविभागानाम् अधिकारिभिः सह समीक्षात्मकगोष्ठ्याः आयोजनं कृतम्।
बैठके पर्यटनविकासः, मार्गसम्पर्कः, विद्युत्सुविधा, ऐतिहासिकस्थलानां संरक्षणम्, स्थानीयजनानां कृते आधारभूतसुविधाः इत्यादिषु विविधविषयेषु विस्तरेण चर्चा अभवत्। बैठककाले जिलाधिकारिणा रोहतासगढदुर्गपरिसरे स्थितस्य ऐतिहासिकधार्मिकमहत्त्वयुक्तस्य कर्मवृक्षस्य संरक्षणार्थम् आवश्यककार्यवाहीं सुनिश्चितां कर्तुं निर्देशः प्रदत्तः। तेन उक्तं यत् एतादृशानां प्राकृतिकसांस्कृतिकधरोहराणां संरक्षणम् अस्माकं प्राथमिकता अस्ति।
ग्रामीणानां सुविधां दृष्ट्वा सामुदायिकभवननिर्माणार्थम् उपयुक्तभूमेः चयनं कर्तुं जिलाभूअर्जनाधिकारिणे निर्देशः प्रदत्तः। सहैव रोहतासगढरज्जुमार्गपरियोजनायाः गुणवत्ता, निर्माणमानदण्डाः, कार्यप्रगतिः च समीक्षिता तथा सम्बन्धिताधिकारिभ्यः उच्चगुणवत्तया कार्यं सम्पन्नं कर्तुं निर्देशाः प्रदत्ताः। बैठके पर्वतीयप्रदेशेषु विद्युत्प्रदायस्य सुनिश्चितीकरणार्थं सौरऊर्जाकेंद्रस्य स्थापनाविषये अपि विस्तरेण चर्चा अभवत्। पर्वतीयग्रामेषु विद्युत्प्रदायस्य योजनायाः विषये अपि विचारविमर्शः कृतः तथा वनविभागात् आवश्यकं अनापत्तिप्रमाणपत्रं प्राप्तमात्रेण सम्बन्धितकार्यस्य आरम्भः भविष्यति इति सूचितम्।
उपवेशने सूचितं यत् रेहलात् चौरासनमन्दिरपर्यन्तं प्रस्तावितस्य मार्गनिर्माणकार्ये विद्यमानाः प्रशासनिकाः तकनीकीबाधाश्च शीघ्रं निराक्रिय परियोजनायाः प्रगतिः सुनिश्चितीक्रियते। चौरासनमन्दिरस्य क्षतिग्रस्तसंरचनानां मरम्मतकार्यं कृत्वा आवश्यकस्थानेषु सुरक्षादृष्ट्या रेलिङ्गस्थापनस्य निर्देशः अपि प्रदत्तः। सहैव मन्दिरपरिसरस्य समीपे जनसुविधार्थं शौचालयनिर्माणस्य निर्णयः अपि कृतः।
उपवेशने एतदपि सूचितं यत् रेहलपुलिसस्थानकभवनस्य निर्माणकार्यं सम्पन्नम् अस्ति। संजालसुविधायाः उपग्रहसम्पर्कस्य च उपलब्धतायां सति पुलिसस्थानकं विधिवत् कार्यम् आरप्स्यति। अधिकारिभिः एतदपि निवेदितं यत् भारतीयपुरातत्त्वसर्वेक्षणसंस्थया रोहतासगढदुर्गपरिसरे विविधानि संरक्षणविकासकार्याणि सम्पाद्यन्ते।
जिलाधिकारिणा निर्देशः प्रदत्तः यत् एतेषु कार्येषु सम्बन्धितविभागानां मध्ये उत्तमः समन्वयः स्थापनीयः, येन ऐतिहासिकधरोहरायाः संरक्षणं पर्यटनविकासश्च समानरूपेण अग्रे गच्छेताम्। तेन उक्तं यत् रोहतासगढदुर्गः देशस्य प्रमुखासु ऐतिहासिकसंपत्सु अन्यतमः अस्ति। अत्र मार्गसम्पर्कस्य, विद्युत्सुविधानां तथा अन्यासां मूलभूतसुविधानां विस्तारात् पर्यटकानां संख्या वर्धिष्यते। तेन सह स्थानीयार्थव्यवस्थायाः अपि नवीनगतिर्भविष्यति। जिलाप्रशासनं रोहतासगढप्रदेशस्य समग्रविकासार्थं सर्वैः सम्बन्धितविभागैः सह समन्वयं स्थापयित्वा योजनानां प्रभावी समयबद्धं च क्रियान्वयनं सुनिश्चितं करिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani