Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 20 जुलाईमासः (हि.स.)। काङ्ग्रेसदलस्य राष्ट्रियप्रवक्ता आलोकशर्मा हरिद्वारस्य प्रबुद्धैः तीर्थपुरोहितैः सह समागत्य तेषाम् आशीर्वादम् अलभत। अस्मिन् अवसरे तेन धर्मनगरी हरिद्वारस्य धार्मिकसामाजिकराजनीतिकविषयेषु विस्तरेण चर्चा कृता।
काङ्ग्रेसदलस्य वरिष्ठनेतारः मनोज सैनी सोम त्यागी विकासचन्द्रः च आलोकशर्मया सह ज्वालापुरस्थितस्य तीर्थपुरोहितस्य अविक्षितरमणस्य निवासम् अगच्छन्। ततः पूर्वं तेन प्राचीनभाईजीमन्दिरे भगवानः श्रीकामेश्वरमहादेवस्य दर्शनं कृत्वा पूजार्चना कृता तथा तेषाम् आशीर्वादः प्राप्तः।
कार्यक्रमे श्रीगङ्गासभायाः पूर्वाध्यक्षः पण्डितः प्रदीप झा अखिलभारतीयतीर्थपुरोहितमहासभायाः राष्ट्रियोपाध्यक्षः श्रीकान्त वशिष्ठः प्रसिद्धः भागवताचार्यः पण्डितः करुणेश मिश्रः अधिवक्ता प्रदीप जगता प्रेसक्लबस्य पूर्वाध्यक्षः अविक्षित रमणः गोपाल पटवरः सुनील मिश्रः राधेश्याम विद्याकुलः आशीष भगतः पराग मिश्रः दैवज्ञ रमणः च सहिताः अनेकाः गणमान्यजनाः उपस्थिताः आसन्।
उपवेशनस्य समये आलोकशर्मा तीर्थपुरोहितैः सह हरिद्वारस्य आध्यात्मिकपरम्परायाः धार्मिकक्रियाकलापानां सामाजिकसरोकाराणां वर्तमानराजनीतिकपरिदृश्यस्य च विषये चर्चां कृत्वा तेषां विचारान् अशृणोत्।
पण्डितः प्रदीप झा पण्डितः करुणेश मिश्रः श्रीकान्त वशिष्ठः च आलोकशर्माणं तस्य राजनैतिकजीवनस्य कृते शुभकामनाः प्रदाय मातुः गङ्गायाः समीपे तस्य उज्ज्वलभविष्यस्य सफलतायाश्च प्रार्थनाम् अकुर्वन्।
---------------
Hindusthan Samachar / Dheeraj Maithani