Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 20 जुलाईमासः (हि.स.)।गोमुखात् गङ्गासागरपर्यन्तं प्रज्ञापदयात्रा सोमवासरे गायत्रीतीर्थशान्तिकुञ्जम् आगता। तत्र डा चिन्मयपण्ड्येन सप्तसदस्यीयपदयात्रादलस्य अभिनन्दनं कृत्वा अभियानस्य सफलतायै शुभकामनाः प्रदत्ताः। सः अवदत् यत् एषा पदयात्रा केवलं यात्रा नास्ति, अपितु व्यसनमुक्तस्य संस्कारितस्य जागरूकस्य च भारतस्य निर्माणाय जनान्दोलनम् अस्ति।
देवसंस्कृतिविश्वविद्यालयस्य प्रतिकुलपतिः डा चिन्मयपण्ड्यः अवदत् यत् यात्राकाले प्रत्येकस्मिन् ग्रामे कस्बे नगरे च जनसम्पर्कं कृत्वा व्यसनमुक्तेः सामाजिकजागरूकतायाः तथा मृत्योः अनन्तरम् अङ्गदानस्य मानवतामूलकाभियानस्य विषये जनाः सम्बद्धाः क्रियन्ताम्। तेन उक्तं यत् गायत्रीपरिवारस्य संस्थापकेन पण्डितश्रीरामशर्माचार्येण प्रतिपादितान् युगनिर्माणसंविधानस्य सत्सङ्कल्पान् जनजनं प्रति प्रसार्य समाजे नैतिकताया सदाचारस्य राष्ट्रभक्तेः च चेतना सुदृढा कर्तुं शक्यते।
पदयात्रादलाय शान्तिकुञ्जस्य अधिष्ठात्री शैलदीदी यात्राकाले संयमस्य अनुशासनस्य स्वास्थ्यस्य सुरक्षायाः च विशेषं ध्यानं धारयितुं सन्देशम् अददात्।
उल्लेखनीयं यत् अखिलविश्वगायत्रीपरिवारस्य केन्द्रीयसामाजिकन्यायाधिकारितामन्त्रालयस्य च संयुक्ततत्त्वावधाने देशव्यापी व्यसनमुक्तिजनजागरणाभियानं सञ्चाल्यते। तस्यैव क्रमस्य अन्तर्गतं प्रचलिता एषा प्रज्ञापदयात्रा युवजनान् समाजं च व्यसनस्य मादकद्रव्याणां च दुष्प्रभावेभ्यः जागरूकान् करोति तथा नैतिकसांस्कृतिकमूल्यानां संवर्धनस्य सन्देशम् अपि प्रसारयति।
पदयात्रादलस्य संयोजकः मुरलीधरमौर्यः अवदत् यत् यात्रा प्रतिदिनं प्रायः विंशतिकिलोमीटरपरिमितां दूरीम् अतिक्रम्य विविधस्थानेषु व्यसनमुक्तेः गायत्रीपरिवारस्य सप्तान्दोलनानां गायत्रीदीपमहायज्ञस्य शिक्षाप्रदसांस्कृतिककार्यक्रमाणां च माध्यमेन जनजागरणं करिष्यति।
सप्तसदस्यीये अस्मिन् दले मुरलीधरमौर्यः आलोककुमारमिश्रः पङ्कजकुमाररस्तोगी सन्तोषवर्मा राधेश्यामकटियारः मायारामयादवः रामेश्वरप्रसादयज्ञसैनी च समाविष्टाः सन्ति। एषा पदयात्रा नवमे जुलैमासस्य दिने गोमुखात् प्रारब्धा अस्ति तथा दीपावल्याः अवसरे गङ्गासागरे गायत्रीदीपमहायज्ञेन सह अस्याः समापनं भविष्यति।
Hindusthan Samachar / Dheeraj Maithani