हैदराबादनगरे प्रसिद्धः बलकमपेट-येल्लम्मा-कल्याणोत्सवः प्रारब्धः, समागतः श्रद्धालूनां महान् सम्मर्दः
हैदराबादनगरम्, २१ जुलाईमासः (हि.स.)। तेलङ्गानाराजधान्यां हैदराबादनगरे स्थिते पञ्चदशशताब्द्याः ऐतिहासिके येल्लम्मा-मन्दिरे सहस्रशः श्रद्धालूनां उपस्थितौ मङ्गलवासरे वार्षिकः येल्लम्मा-कल्याणोत्सवः धार्मिकोत्साहेन प्रारब्धः। तथापि दीर्घपङ्क्तिषु विलम्
बलकमपेट येलाम्मा मंदिर में श्रद्धालुओं की उमड़ी भारी भीड़


हैदराबादनगरम्, २१ जुलाईमासः (हि.स.)। तेलङ्गानाराजधान्यां हैदराबादनगरे स्थिते पञ्चदशशताब्द्याः ऐतिहासिके येल्लम्मा-मन्दिरे सहस्रशः श्रद्धालूनां उपस्थितौ मङ्गलवासरे वार्षिकः येल्लम्मा-कल्याणोत्सवः धार्मिकोत्साहेन प्रारब्धः। तथापि दीर्घपङ्क्तिषु विलम्बः तथा सुरक्षाव्यवस्थाजन्यनियन्त्रणस्य कारणात् अनेके श्रद्धालवः दर्शनार्थं दीर्घकालं प्रतीक्षां कर्तुं विवशाः अभवन्।

अपरञ्च विशिष्टातिथीनां उपस्थित्या, येभ्यः मन्दिरे प्राथमिकतया प्रवेशः प्रदत्तः, सामान्यश्रद्धालूनां कठिनताः अधिकाः अभवन् तथा तेषां निर्बाधगमनागमनम् अपि प्रतिबद्धम् अभवत्। फलतः मन्दिरस्य समीपस्थिताः सङ्कीर्णमार्गाः पङ्क्तिबद्धैः श्रद्धालुभिः पूर्णाः अभवन्।

अस्याः अत्यधिकजनसमागमस्य कारणेन जनसमूहनियन्त्रणस्य तथा एतादृशस्य महोत्सवस्य समुचितयोजनायाः अभावस्य विषये गम्भीराः चिन्ताः अपि प्रकटिताः।

मुख्यमन्त्रिणः ए. रेवन्तरेड्डी इत्यस्य पत्नी पुत्री च, प्रबन्धनमन्त्री कोंडा सुरेखा, परिवहनमन्त्री पोन्नम् प्रभाकरः च राज्यसर्वकारस्य पक्षतः देव्यै ‘पट्टू-वस्त्राणि’ समर्पितवन्तः। एतैः सह अन्येषामपि विशिष्टव्यक्तीनाम् उपस्थितेः कारणेन सामान्यश्रद्धालवः पङ्क्तिषु दीर्घकालं यावत् प्रतीक्षां कर्तुं विवशाः अभवन्।

मन्दिरस्य धार्मिकानुष्ठानानि प्रातः त्रिवादने विशेषाभिषेकेण पारम्परिकपूजया च आरब्धानि। मन्त्री पोन्नम् प्रभाकरः तथा पूर्वमन्त्री तलसानी श्रीनिवासयादवः अवदताम् यत् ताभ्यां सम्यग्वृष्टये, समृद्धशस्योत्पादनाय, कृषकाणां नागरिकाणां च सर्वाङ्गीणकल्याणाय देवीसमक्षं प्रार्थना कृता।

येल्लम्मा-मन्दिरे माता रेणुकादेव्याः प्रतिमा कूपस्य अन्तः भूमेः प्रायः दशपादमात्रं अधः अद्वितीयरूपेण प्रतिष्ठिता अस्ति। श्रद्धालवः परम्परानुसारं तत्र हरिद्रां, साटिकाः, कङ्कतानि च समर्पयन्ति।उत्सवः बुधवासरे आयोजितेन रथोत्सवेन निरन्तरं प्रवर्तिष्यते।

Hindusthan Samachar / Divya Ranjan