Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २१ जुलाईमासः (हि.स.)। भारतीयजनतापक्षः अग्रिम-विधानसभानिर्वाचनस्य सिद्धतां दृष्ट्वा २२ जुलाईमासे प्रदेशस्य सर्वेषु ४०३ विधानसभाक्षेत्रेषु विधानसभास्तरीय-बूथाध्यक्ष-सम्मेलनानि आयोजयिष्यति। अस्मिन् अवसरे मुख्यमन्त्री योगी आदित्यनाथः, प्रदेशाध्यक्षः तथा केन्द्रीयवित्तराज्यमन्त्री पङ्कजचौधरी, उपमुख्यमन्त्री केशवप्रसादमौर्यः तथा बृजेशपाठकः, प्रदेशमहामन्त्री (सङ्घटनम्) धर्मपालसिंहः, अन्ये प्रदेशपदाधिकारीणः, प्रदेशसर्वकारस्य मन्त्रिणः, दलानां प्रदेशाध्यक्षाः, क्षेत्रीयाध्यक्षाः तथा पक्षस्य वरिष्ठनेतारः बूथाध्यक्षैः सह संवादं करिष्यन्ति।
भाजपादलस्य प्रदेशमहामन्त्री सञ्जयरायः अवदत् यत् एतेषां सम्मेलनानां माध्यमेन सङ्घटनस्य अग्रिम-कार्ययोजना, बूथसुदृढीकरणम्, जनसम्पर्क-अभियानम् तथा अग्रिम-निर्वाचन-सज्जासम्बद्धं विस्तृतं मार्गदर्शनं प्रदास्यते। “बूथ जित्वा निर्वाचनं जयेम” तथा “मम बूथः सर्वाधिकः सुदृढः” इति संकल्पेन आयोजितानि एतानि सम्मेलनानि बूथस्तरे अभेद्यव्यूहरचनायाः निर्माणे तथा बूथविजय-अभियानस्य प्रभाविकार्यान्वयने सहायकानि भविष्यन्ति।
विधानसभास्तरे आयोजितेषु सम्मेलनेषु २२ जुलाईमासे मुख्यमन्त्री योगी आदित्यनाथः गोरखपुर-सदर-विधान-सभाक्षेत्रे, प्रदेशाध्यक्षः तथा केन्द्रीयवित्तराज्यमन्त्री पङ्कजचौधरी सीतापुरजनपदस्य लहरपुर-विधान-सभाक्षेत्रे, उपमुख्यमन्त्री केशव-प्रसादमौर्यः बरेली-नगर-विधानसभाक्षेत्रे, उपमुख्य-मन्त्री बृजेश-पाठकः शाहजहाँपुर-जनपदस्य जलालाबाद-विधानसभाक्षेत्रे, प्रदेशमहामन्त्री (सङ्घटनम्) धर्मपालसिंहः वाराणसी-दक्षिण-तथा-कैण्ट-विधानसभाक्षेत्रयोः आयोजितेषु बूथाध्यक्ष-सम्मेलनेषु सङ्घटनात्मकं मार्गदर्शनं प्रदास्यन्ति।
एतदतिरिक्तं प्रदेशसर्वकारस्य मन्त्रिणः, प्रदेशपदाधिकारिणः, क्षेत्रीयपदाधिकारिणः, सांसदाः, विधायकाः, विधानपरिषदः सदस्याः, जनपदप्रभारिणः, जनपदाध्यक्षाः तथा पक्षस्य वरिष्ठनेतारः अपि स्वस्व-विधानसभाक्षेत्रेषु आयोजितेषु बूथाध्यक्ष-सम्मेलनेषु सहभागित्वं कृत्वा बूथाध्यक्षान् कार्यकर्तॄंश्च मार्गदर्शनं करिष्यन्ति।
Hindusthan Samachar / Divya Ranjan