Enter your Email Address to subscribe to our newsletters

रायपुरम् ., 21 जुलाईमासः (हि.स.)।
भारतीयजनतापक्षस्य राष्ट्रियसहसङ्गठनमहामन्त्री शिवप्रकाशसिंहः अद्य मङ्गलवासरात् द्विदिवसीयप्रवासाय छत्तीसगढप्रदेशम् आगच्छति, यत्र सः पक्षस्य महत्त्वपूर्णानां संगठनात्मकोपवेशनानाम् अध्यक्षतां करिष्यति।
सः मुम्बईनगरात् अपराह्णे रायपुरनगरम् आगमिष्यति।
भारतीयजनतापक्षकार्यालयात् प्राप्तसूचनानुसारम् तस्य प्रवासेन सह प्रदेशभारतीयजनतापक्षे महत्त्वपूर्णानां संगठनात्मकोपवेशनानां क्रमः प्रारभिष्यते।
अद्य अपराह्णे ३ वादने प्रदेशपदाधिकाऱिणाम् उपवेशनम् तथा सायं ६ वादने प्रदेशकार्यसमितेः उपवेशनम् आयोजितं भविष्यति।
बुधवासरे प्रातः प्रदेशमहामन्त्रिणाम् उपवेशनम् तथा अपराह्णे प्रदेशप्रकोष्ठसंयोजकानाम् उपवेशनम् भविष्यति।
एतेषु उपवेशनेषु प्रदेशसङ्गठनमहामन्त्री पवनसायः, मुख्यमन्त्री विष्णुदेवसायः, प्रदेशाध्यक्षः किरणदेवः तथा संगठनस्य वरिष्ठपदाधिकारी सहभागिनः भविष्यन्ति। उपवेशने हाल एव सम्पन्नस्य विधानसभायाः वर्षाकालीनसत्रस्य अनन्तरं जातानां राजनैतिकपरिस्थितीनाम्, आगामिनां स्थानीयनिकायनिर्वाचनानाम् तथा संगठनस्य सुदृढीकरणस्य विषये विस्तरेण चर्चा भविष्यति। आगामिदिनानां कृते पक्षस्य कार्यक्रमाणां तथा कार्यकर्तृणां सक्रियतावर्धनार्थं महत्त्वपूर्णाणि रणनीतिकोपवेशनानि आयोजितानि भविष्यन्ति।
Hindusthan Samachar / Dheeraj Maithani