मुख्यमंत्री सायः अद्य पंचायत एवं ग्रामीण विकास विभागस्य करिष्यति समीक्षाम्
रायपुरम्, 21 जुलाईमासः(हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य मङ्गलवासरे मन्त्रालये पञ्चायतग्रामीणविकासविभागस्य कार्याणां समीक्षां करिष्यति। निर्धारितकार्यक्रमानुसारम् मुख्यमन्त्री अद्य प्रातः ११ वादने मुख्यमन्त्रिनिवासात् मन्त्रालयाय प्रस्थितः
मुख्यमंत्री विष्णुदेव साय


रायपुरम्, 21 जुलाईमासः(हि.स.)।

मुख्यमन्त्री विष्णुदेवसायः अद्य मङ्गलवासरे मन्त्रालये पञ्चायतग्रामीणविकासविभागस्य कार्याणां समीक्षां करिष्यति। निर्धारितकार्यक्रमानुसारम् मुख्यमन्त्री अद्य प्रातः ११ वादने मुख्यमन्त्रिनिवासात् मन्त्रालयाय प्रस्थितः भविष्यति। ततः प्रातः ११:३० वादने मन्त्रालये विभागीयसमीक्षोपवेशनस्य अध्यक्षतां करिष्यति।

अपराह्णे मुख्यमन्त्री भारतीयजनतापक्षस्य प्रदेशकार्यालयं कुशाभाऊठाकरेपरिसरं गमिष्यति, यत्र सः विविधेषु उपवेशनेषु संगठनात्मककार्यक्रमेषु च सहभागं करिष्यति। निर्धारितकार्यक्रमानुसारम् मुख्यमन्त्री रात्रौ ९:१५ वादने मुख्यमन्त्रिनिवासं प्रत्यागमिष्यति।

Hindusthan Samachar / Dheeraj Maithani