बलौदापणः - पण्डित चक्रपाणी शुक्लमाध्यमिकविद्यालयस्य क्रीडांगणे भविष्यति स्वतंत्रता दिवसीयस्य मुख्यसमारोहस्य आयोजनम्
जनपदाधिकारिणाधिकारिभ्यो दत्तं सज्जाहेतुकं दायित्वम् बलौदाबाजारः, 21 जुलाईमासः (हि.स.)। स्वातन्त्र्यदिवसस्य जिलास्तरीयसमारोहः १५ अगस्त २०२६ दिनाङ्के बलौदाबाजारस्थिते पण्डित चक्रपाणि शुक्ल स्वामी आत्मानन्द शासकीय उच्चतर माध्यमिक विद्यालयस्य क्रीडाङ्
स्वतंत्रता दिवस समारोह की तैयारियों को लेकर बैठक लेते हुए कलेक्टर कुलदीप शर्मा


जनपदाधिकारिणाधिकारिभ्यो दत्तं सज्जाहेतुकं दायित्वम्

बलौदाबाजारः, 21 जुलाईमासः (हि.स.)। स्वातन्त्र्यदिवसस्य जिलास्तरीयसमारोहः १५ अगस्त २०२६ दिनाङ्के बलौदाबाजारस्थिते पण्डित चक्रपाणि शुक्ल स्वामी आत्मानन्द शासकीय उच्चतर माध्यमिक विद्यालयस्य क्रीडाङ्गणे आयोजयिष्यते। जिलाधिकारी कुलदीप शर्मा मङ्गलवासरे स्वातन्त्र्यदिवसस्य पूर्वतैयारीसमीक्षोपवेशने अधिकारिभ्यः आवश्यकनिर्देशान् प्रदाय विभिन्नदायित्वानि समर्पितवान्।

समारोहार्थं विभागानुसारम् अधिकारिभ्यः पृथक्पृथक् कार्याणां दायित्वानि समर्पितानि। वर्षाकालं दृष्ट्वा जलरोधकपण्डालस्य व्यवस्थां कर्तुं तथा उपवेशनव्यवस्थया सह अन्याः सर्वाः व्यवस्थाः सुनिश्चिताः कर्तुम् आदेशाः प्रदत्ताः। स्वातन्त्र्यदिवसस्य मुख्यसमारोहः प्रातः नववादने पण्डित चक्रपाणि शुक्ल उच्चविद्यालयस्य क्रीडाङ्गणे प्रारभ्यते। मुख्यातिथिः अत्र ध्वजारोहणं कृत्वा परेडस्य सलामीं स्वीकरिष्यति। ततः पूर्वं सर्वेषु शासकीय अशासकीय कार्यालयेषु ध्वजारोहणं सम्पन्नं भविष्यति।

सम्पूर्णकार्यक्रमस्य अन्तिमपूर्वाभ्यासः १३ अगस्त दिनाङ्के प्रातः नववादने स्टेडियम क्रीडाङ्गणे भविष्यति। अस्मिन् वर्षे राष्ट्रगानात् पूर्वं राष्ट्रगीतं वन्देमातरम् अपि गास्यते।

समारोहस्थलस्य स्वच्छता, बैरिकेडव्यवस्था, शामियानव्यवस्था, मञ्चध्वनिविस्तारकव्यवस्था, जलव्यवस्था, उपवेशनव्यवस्था, शान्तिव्यवस्था, यातायातव्यवस्था, मार्चपास्ट परेड, विद्यालयीयबालकैः सांस्कृतिककार्यक्रमाः, चिकित्साव्यवस्था, शहीदपरिवारजनानां सम्मानः, पुरस्कारवितरणम् इत्यादीनां कृते सम्बद्धाधिकारिभ्यः दायित्वानि समर्पितानि।

उपवेशने पुलिसाधीक्षकः गौरव राय, जिला पञ्चायतस्य मुख्यकार्यपालनाधिकारी दिव्या अग्रवाल, अपरजिलाधिकारी दीप्ती गौते, ए. आर. टण्डन, निशा नेताम मडावी, सीमा ठाकुर तथा सर्वे उपजिलाधिकारी, जनपदमुख्यकार्यपालनाधिकारीणः, विभिन्नविभागानां जिलाधिकारिणः च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani