Enter your Email Address to subscribe to our newsletters

छिन्दवाडानगरम्, २१ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य छिन्दवाडा-स्थितायां शासकीय-औद्योगिक-प्रशिक्षण-संस्थायाम् अद्य मङ्गलवासरे व्ही.ई. पावरट्रेन व्ही.ई. कमर्शियल व्हीकल्स लिमिटेड-निर्माण्या आईटीआई-उत्तीर्णानां तथा अन्तिम-वर्षस्य प्रशिक्षार्थिनां कृते नियोजन-चयन-शिविरस्य आयोजनं क्रियते।
जनसम्पर्क-अधिकारिणी नीलू-सोनी अवदत् यत् निर्माण्या निर्धारित-पात्रतानुसारं फिटर, टर्नर, मशीनिस्ट, इलेक्ट्रीशियन, मोटर-मैकेनिक तथा डीजल-मैकेनिक-व्यवसायेषु प्रशिक्षिताः अभ्यर्थिनः आवेदनस्य पात्राणि भविष्यन्ति। नियुक्ति-प्रक्रियायां पुरुषाः महिलाश्च भागं ग्रहीतुं शक्नुवन्ति। अभ्यर्थिनां वयः १८ वर्षेभ्यः २५ वर्षपर्यन्तं निर्धारितम् अस्ति।
चयनितेभ्यः अभ्यर्थिभ्यः प्रतिमासं १२,५०० रूप्यकाणां वेतनं तथा १,००० रूप्यकाणां उपस्थितेः प्रोत्साहन-धनं प्रदास्यते। एतदतिरिक्तं निर्माण्या द्वे गणवेशे, एकं युगलं सुरक्षा-पादत्राणयोः, पीपीई-किट्, प्रतिदिनं द्विवारं चायं, द्विवारं लघ्वाहारं तथा प्रतिभोजनम् प्राय: १८.२३ रूप्यक-मूल्येन अनुदान-सहित-भोजनस्य सुविधा प्रदास्यते।
इच्छुक-अभ्यर्थिभिः प्रातः १० वादने स्वीयानि सर्वाणि मूल-प्रमाणपत्राणि तेषां छायाप्रतीभि: च सह शासकीय-औद्योगिक-प्रशिक्षण-संस्थायां छिन्दवाडानगरे उपस्थातव्यम्। नियोजन-चयन-शिविरे सहभागितार्थं संस्थया प्रदत्तेन अन्तर्जाल-पञ्जीकरण-संयोजनेन https://forms.gle/GS9nG6scmq71o2ca8 अथवा क्यूआर-कोड-माध्यमेन पूर्व-पञ्जीकरणम् अनिवार्यम्।
Hindusthan Samachar / Divya Ranjan