Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, २१ जुलाईमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी सूचितवान् यत् सर्वकारीय-बसयानेषु महिलानां निःशुल्क-यात्रा-योजनायाः अन्तर्गतं यात्राशुल्क-व्यवस्थायां परिवर्तनं कर्तुं शक्यते। सः अवदत् यत् याः महिलाः स्वेच्छया यात्राशुल्कं दत्त्वा यात्रां कर्तुम् इच्छन्ति, तासां कृते परिवहन-विभागेन वैकल्पिकी व्यवस्था निर्मास्यते।
मङ्गलवासरे कोलकातानगरस्य कसबा-प्रदेशस्थिते परिवहन-भवने पञ्चाशत् नवीनानां पर्यावरणानुकूलानां सर्वकारीय-बसयानानां लोकार्पण-अवसरे मुख्यमन्त्रिणा एषा घोषणा कृता। तेन उक्तं यत् महिलानां निःशुल्क-यात्रा-सुविधा यथावत् प्रवर्तिष्यते, परन्तु ये यात्रिकाः यात्राशुल्कं दत्त्वा यात्रां कर्तुम् इच्छन्ति, तेभ्यः अपि एषः विकल्पः प्रदास्यते।
राज्ये भारतीय-जनता-पक्षस्य सर्वकारस्य सत्तायाम् आगमनानन्तरं महिलानां कृते सर्वकारीय-बसयानेषु निःशुल्क-यात्रा-योजना प्रारब्धा। अस्याः योजनायाः अन्तर्गतं महिलाभ्यः पिङ्क-स्मार्ट-कार्ड प्रदत्तानि सन्ति, यानि प्रदर्श्य ताः यात्राशुल्कं विना यात्रां कर्तुं शक्नुवन्ति। सर्वकारस्य मते अस्याः योजनायाः लाभः बहुसंख्याभ्यः महिला-यात्रिभ्यः प्राप्तः।
किन्तु केचन कार्यरताः स्वावलम्बिन्यः महिलाः अस्याः व्यवस्थायाः विषये आपत्तिं प्रकटितवन्त्यः। तासां मतम् अस्ति यत् स्वकीय-आयेन सार्वजनिक-परिवहनस्य निर्धारितं यात्राशुल्कं दातुम् इच्छन्ति। अपराश्च महिलाः आरोपं कुर्वन्ति यत् यात्रापत्र-व्यवस्थाया: समापनत्वात् बहुशः बसयान-चालकाः परिचालकाश्च निर्धारित-स्थानेषु महिला: दृष्ट्वापि बसयानं न स्थापयन्ति, येन ताभ्यः क्लेशः जायते। अतः अस्याः योजनायाः कार्यान्वयनस्य विषये अपि प्रश्नाः उत्थापिताः सन्ति।
अस्मिन्नवसरे मुख्यमन्त्री राज्ये पर्यावरणानुकूलस्य सार्वजनिक-परिवहनस्य प्रोत्साहनाय स्वस्य प्रतिबद्धतां पुनरपि व्यक्तवान्। तेन पञ्चाशत् नवीन-सर्वकारीय-बसयानानि हरित-ध्वजेन प्रस्थापितानि। एतेषु त्रिचत्वारिंशत् बसयानानि सीएनजी-इन्धनेन सञ्चालितानि सन्ति, सप्त च विद्युत्-सञ्चयिका-आधारितानि सन्ति। मुख्यमन्त्री अवदत् यत् अग्रिमेषु कालेषु एतादृशानि अधिकानि बसयानानि मार्गेषु प्रवर्तिष्यन्ते।
अस्मिन्नवसरे परिवहनमन्त्री अर्जुन-सिंहः, मुख्य-सचिवः मनोज-अग्रवालः तथा परिवहन-विभागस्य अनेके वरिष्ठ-अधिकारीणः उपस्थिताः आसन्। सर्वकारेण उक्तं यत् आधुनिकैः पर्यावरणानुकूलैश्च बसयानैः सार्वजनिक-परिवहनं अधिकं सुविधाजनकं, सुरक्षितं चिरस्थायी च भविष्यति।
Hindusthan Samachar / Divya Ranjan