Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, २१ जुलाईमासः (हि.स.)। राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा युवानः क्रीडया राष्ट्रनिर्माणेन, क्रीडाक्षेत्रेण, कौशलविकासेन च सम्बद्धान् कर्तुं महत्त्वपूर्णं प्रयत्नं कुर्वन् मङ्गलवासरे मुख्यमन्त्रिनिवासे ‘मुख्यमन्त्री-युवा-सुयोगः’ इति योजनायाः शुभारम्भम् अकरोत्। सः अवदत् यत् प्रदेशस्य युवाशक्तेः सामर्थ्ये परिवर्तनाय ‘युवा-सुयोगः’ इति डिजिटलमञ्चः सम्यग्दिशां, समुचितावसरं, योग्यं मञ्चं च प्रदास्यति। क्रिकेट्-वॉलीबॉल-कबड्डी-फुटबॉल-इत्यादीनां सामूहिकक्रीडाणां माध्यमेन प्रदेशस्य प्रत्येकं पञ्चायते वार्ड-इत्यत्र च युवा-नेतृत्वस्य विकासः भविष्यति तथा युवानः स्वप्रतिभानुसारम् उन्नतिं प्राप्स्यन्ति।
मुख्यमन्त्री अवदत् यत् प्रायः ६५ प्रतिशतं युवजनसंख्यायुक्तः भारतदेशः विश्वस्य सर्वाधिकः युवा-देशः अस्ति। एषैव युवाशक्तिः भारतस्य महत्तमा सम्पद् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी युवाशक्तेः राष्ट्रनिर्माणे सक्रियसहभागितायै ‘माई भारत’ इति अभिनवं प्रयत्नम् आरब्धवान्। तस्मात् प्रेरणां गृहीत्वा राज्यसर्वकारेण ‘सुयोग’ इति अभिनवमञ्चस्य प्रारम्भः कृतः। अयं मञ्चः ‘माई भारत’ पटलेन सह एकीकृतः भविष्यति, येन युवानः अधिकतमं लाभं प्राप्नुयुः।
सः अवदत् यत् युवभ्यः निरन्तरं क्रीडितुं अवसरः लभेत, तेषां रुचिः च वर्धेत, इत्यर्थं राज्यसर्वकारः दृढसंकल्पेन कार्यं करोति। ग्रामेभ्यः आरभ्य नगरपर्यन्तं क्रीडा-सुविधानां सेवासु च निरन्तरं विस्तारः क्रियते। सर्वकारः युवभिः सह विविध-विषयेषु संवादं कृत्वा तेषां विचारान् अर्थसङ्कल्पे समावेशयति। राज्यसर्वकारः यूनां सफलतायाः प्रथमसोपानात् अन्तिमसोपानपर्यन्तं पूर्णसहयोगं प्रददाति।मुख्यमन्त्री अवदत् यत् राज्यसर्वकारस्य अभिप्रायः अस्ति यत् यूनां विचाराणाम् आधारेण एव क्रीडानीतयः निर्मीयेरन्। अस्याः योजनायाः अन्तर्गतं भूमिस्तरे विविधाः क्रीडास्पर्धाः आरभ्स्यन्ते। वार्ड-पञ्चायत-स्तरात् विजयीभूताः पक्षाः विधानसभाक्षेत्रस्तरे स्वप्रतिभां प्रदर्शयिष्यन्ति। युवानः ‘सुयोग’ पटलस्य माध्यमेन अन्तर्जालमार्गेण पञ्जीकरणं कर्तुं शक्नुवन्ति। विद्यालयानां, महाविद्यालयानां, पञ्चायत-वार्ड-क्रीडाङ्गणानां च डिजिटल-परिचयः अपि करिष्यते।
सः अवदत् यत् ‘सुयोगः’ मञ्चः डिजिटल-क्रान्तिः अस्ति, या प्रदेशस्य प्रत्येकं ग्रामे, प्रत्येकस्मिन् वार्ड-इत्यत्र अन्तिमपङ्क्तौ स्थितान् युवानः मुख्यधारया संयोजयिष्यति। अस्य माध्यमेन महत् सामाजिकपरिवर्तनम् आगमिष्यति। प्रत्येकस्मिन् जनपदे ‘सुयोग-युवा-क्लब’ स्थाप्यन्ते, येषु सुयोग-मञ्चे पञ्जीकृतः प्रत्येकं युवा सदस्यः भविष्यति। एते क्लब इति ग्रामीणक्षेत्रेषु पञ्चायतस्तरीयैः, नागरक्षेत्रेषु वार्डस्तरीयैः युवा-क्लब-इत्येतैः सह सम्बद्धाः भविष्यन्ति। आदौ बगरू-विधानसभाक्षेत्रे तथा बारां-जनपदे प्रायोगिकपरियोजनारूपेण अस्य शुभारम्भः क्रियते।
मुख्यमन्त्री अवदत् यत् ‘युवा-सुयोग’ योजनायाः अन्तर्गतं विद्यालयेषु, महाविद्यालयेषु, सामुदायिककेन्द्रेषु च विशेष-पञ्जीकरण-शिबिराणि आयोज्यन्ते। यूनां नेतृत्वक्षमतायाः परीक्षणार्थं स्वच्छताभियानम्, डिजिटल-साक्षरता इत्यादीनि स्वयंसेवक-शिबिराणि अपि भविष्यन्ति। ‘सुयोग-चर्चा’ कार्य-क्रमस्य अन्तर्गतं युवा-संवादाः, विचारगोष्ठ्यः, दृश्यश्रव्य-सम्मेलनानि च आयोज्यन्ते।
सः अवदत् यत् यूनः सक्षम-सशक्तान् कर्तुं राज्यसर्वकारेण महत्त्वपूर्णनिर्णयाः स्वीकृताः। गतद्व्यर्धवर्षेषु १ लक्षं ७८ सहस्राधिकेषु शासकीयपदेषु नियुक्तयः प्रदत्ताः। प्रायः १ लक्षपदानां नियुक्ति-प्रक्रिया प्रवर्तते, सवालक्षपदानां कृते नियुक्ति-पञ्चाङ्गम् अपि प्रकाशितम्। ४ लक्षं ५० सहस्राधिकेभ्यः युवभ्यः निजीक्षेत्रे अपि रोजगारः प्रदत्तः। अस्मिन् काले एकापि परीक्षा-पत्र-लीक-घटना न जाता, सर्वाः परीक्षाः पूर्णपारदर्शितया सम्पन्नाः।
युवभ्यः गुणवत्तायुक्तकौशलप्रशिक्षणस्य प्रदाने राज्य-कौशल-नीतिः–२०२५, राजस्थान-युवा-नीतिः–२०२५ च प्रवर्तिते। साडे त्रिलक्षाधिकेभ्यः युवभ्यः कौशलप्रशिक्षणम्, मुख्यमन्त्री-युवा-सम्बल-योजनया ४ लक्षाधिकेभ्यः लाभार्थिभ्यः १३४७ कोटिरूप्यकाणि, ४५०० तः अधिक-स्टार्टअप्-पञ्जीकरणं च सम्पन्नम्।
मुख्यमन्त्री बारां-जनपदस्य तथा बगरू-विधानसभाक्षेत्रस्य युवभिः क्रीडकैश्च सह संवादं कृत्वा तेषां विचारान् अशृणोत्। युवानः अवदन् यत् अस्याः योजनायाः माध्यमेन ग्रामीण-नागर-क्षेत्रयोः युवभ्यः स्वप्रतिभां प्रदर्शयितुं श्रेष्ठः अवसरः भविष्यति, कौशलप्रशिक्षणस्य रोजगारस्य च अवसराः अपि सुलभाः भविष्यन्ति। तदनन्तरं मुख्यमन्त्री युवान् स्वस्थजीवनशैलीम् अवलम्बितुं तथा स्वास्थ्यजागरूकतायाः अभियानं जनान्दोलन-रूपेण परिवर्तयितुम् आह्वानम् अकरोत्। सः विश्वासं व्यक्तवान् यत् स्थानीयप्रतिभाः क्रीडाक्षेत्रे देशस्य प्रदेशस्य च यशः वर्धयिष्यन्ति।
अस्मिन् कार्यक्रमे बगरू-विधायकः डॉ. कैलाशवर्मा, मुख्यसचिवः वी. श्रीनिवासः, उपमुख्यमन्त्री डॉ. प्रेमचन्दबैरवा, विधि-न्यायमन्त्री जोगारामपटेलः, विधायकौ गोपालशर्मा, कैलाशवर्मा, अतिरिक्त-मुख्यसचिवः प्रवीणगुप्तः इत्यादयः, बहुसंख्यकाः युवानश्च उपस्थिताः आसन्। बारां-विधायकः ललितमीणा इत्यस्य नेतृत्वे स्थानीययुवानः तथा विविधशैक्षणिकसंस्थानानां छात्राः दृश्यश्रव्य-सम्मेलनस्य माध्यमेन कार्यक्रमे सहभागीनः अभवन्।
Hindusthan Samachar / Divya Ranjan