Enter your Email Address to subscribe to our newsletters

भारतीय-स्वातन्त्र्य-सङ्ग्रामस्य इतिहासे २२ जुलाईमासस्य दिवसः अत्यन्तं गौरवपूर्णः मन्यते। अस्मिन्नेव दिवसे वर्षे १९४७ तमे संविधानसभया भारतस्य त्रिरङ्गः आधिकारिकतया राष्ट्रिय-ध्वजत्वेन अङ्गीकृतः। स्वातन्त्र्यप्राप्तेः कतिपय-सप्ताहेभ्यः पूर्वं कृतः अयं ऐतिहासिकः निर्णयः राष्ट्रस्य एकता, अखण्डता तथा सार्वभौमत्वस्य स्थायी-प्रतीकः अभवत्।
भारतस्य राष्ट्रिय-ध्वजस्य मूलरचनां स्वातन्त्र्यसेनानी पिङ्गलि-वेङ्कय्या निर्मितवान्। संविधानसभया तस्मिन् अशोकचक्रं समावेश्य अन्तिमरूपं प्रदत्तम्। १५ अगस्तमासे १९४७ तमे वर्षे भारतस्य स्वातन्त्र्यप्राप्त्या सह अयमेव त्रिरङ्गः स्वतन्त्र-भारतस्य राष्ट्रिय-ध्वजः अभवत्।
त्रिरङ्गस्य उपरि स्थितः केसरियवर्णः शौर्यस्य, त्यागस्य तथा बलिदानस्य प्रतीकः अस्ति। मध्ये स्थितः श्वेतवर्णः सत्यस्य, शान्तेः तथा पारदर्शितायाः सन्देशं ददाति। अधः स्थितः हरितवर्णः समृद्धेः, विकासस्य तथा प्रकृतिं प्रति आदरस्य प्रतीकः मन्यते। श्वेतपट्टिकायाः मध्ये स्थितं नीलवर्णीयम् अशोकचक्रम्, यस्मिन् चतुर्विंशतिः अराः सन्ति, निरन्तर-प्रगतिं, न्यायं तथा गतिशील-जीवनस्य सन्देशं वहति।
२२ जुलाईमासे १९४७ तमे वर्षे संविधानसभायां राष्ट्रिय-ध्वज-सम्बद्धः प्रस्तावः प्रस्तुतः, यः सर्वसम्मत्या स्वीकृतः। अयं निर्णयः केवलं ध्वजस्य अङ्गीकारस्य नासीत्, अपितु स्वतन्त्र-भारतस्य परिचयस्य तस्य लोकतान्त्रिक-मूल्यानां च विश्वस्य पुरतः प्रतिष्ठापनस्य प्रतीकः अपि आसीत्।
अद्य त्रिरङ्गः प्रत्येकं भारतीयस्य कृते सम्मानस्य, राष्ट्रभक्तेः तथा राष्ट्रिय-गौरवस्य प्रतीकः अस्ति। राष्ट्रिय-पर्वसु, शासकीय-समारोहेषु तथा अन्ताराष्ट्रिय-मञ्चेषु तस्य गरिमामयी उपस्थितिः राष्ट्रस्य एकतां स्वातन्त्र्यस्य च अमर-भावनां सशक्ततया प्रदर्शयति।
महत्त्वपूर्णाः घटनाः
१७३१ — स्पेन-देशेन वियना-सन्धौ हस्ताक्षराणि कृतानि।१७७५ — जॉर्ज-वॉशिङ्गटनः अमेरिकी-सेनायाः नेतृत्वम् अङ्गीकृतवान्।१९१८ — भारतस्य प्रथमः कुशलः वैमानिकः इन्द्रलाल-रायः प्रथम-विश्वयुद्धे लण्डनदेशे जर्मन-सेनया सह युद्धे वीरगतिं प्राप्तवान्।१९३३ — विली-हार्डेमन-पोस्टः एकाकी विमानेन विश्व-परिक्रमां सम्पन्नवान् प्रथमः मानवः अभवत्।१९४२ — होलोकॉस्ट-नामक-नरसंहारस्य आरम्भः।१९४७ — संविधानसभया त्रिरङ्गः राष्ट्रिय-ध्वजत्वेन अङ्गीकृतः।१९६९ — सोवियत-सङ्घेन स्पूतनिक-५० तथा मोलनिया-११२ सञ्चार-उपग्रहयोः प्रक्षेपणम् अभवत्।१९८१ — भारतस्य प्रथमः भूस्थिर-उपग्रहः ऐप्पल कार्यारम्भम् अकरोत्।१९८८ — अमेरिकादेशस्य ५०० वैज्ञानिकाः जैविकास्त्र-निर्माण-अनुसन्धानस्य बहिष्कारं कर्तुं प्रतिज्ञां कृतवन्तः।१९९१ — अमेरिकी-आरक्षकविभागेन जेफ्री-डेमरः गृहीतः।१९९९ — अन्ताराष्ट्रिय-श्रम-सङ्गठनेन समान-कार्याय समान-पारिश्रमिक-योजना प्रवर्तिता।२००१ — शेरबहादुर-देउबः नेपालस्य नूतनः प्रधानमन्त्री अभवत्।२००१ — समूह-अष्ट-देशानां सम्मेलनं जनीवानगरे सम्पन्नम्।२००३ — इराके वायु-आक्रमणे सद्दाम-हुसैनस्य पुत्रौ मृतौ।२००४ — नोबेल-शान्ति-पुरस्कार-विजेत्री बैटी-विलियम्स मेक्सिको-देशे गृहीता।२००५ — लण्डन-आरक्षकविभागेन संशयवशात् निर्दोषः ब्राजीलीय-नागरिकः जीन-चार्ल्स-डे-मेनेसेस: हतः।२००८ — पाकिस्तानस्य परमाणु-वैज्ञानिकः अब्दुल-कादिर-खानः पुनर्विचार-याचिकां न्यायालये प्रस्तुतवान्।२००९ — २२ जुलाईमासस्य पूर्ण-सूर्यग्रहणं २९ तमे शतके दीर्घतमं पूर्ण-सूर्यग्रहणम् आसीत्।२०१२ — प्रणव-मुखर्जी भारतस्य त्रयोदशः राष्ट्रपतिः निर्वाचितः।२०१९ — चन्द्रयान-२ श्रीहरिकोटा-स्थितात् सतीश-धवन-अन्तरिक्ष-केन्द्रात् प्रक्षिप्तम्।
जन्म
१८९४ — सरदार-तेजासिंह-अकरपुरीः, प्रथम-लोकसभायाः सदस्यः।१८९८ — विनायकराव-पटवर्धनः, प्रसिद्धः शास्त्रीय-सङ्गीत-गायकः।१९२३ — मुकेशः, प्रसिद्धः पार्श्व-गायकः।१९३३ — हिम्मत-शाहः, भारतस्य प्रसिद्धः मूर्तिकारः।१९३३ — सी.वी. श्रीधरः, चलचित्र-निर्देशकः।१९३७ — वसन्त-रञ्जने, क्रिकेट-क्रीडकः।१९४९ — रीता-बहुगुणा-जोशी, राजनीतिज्ञा।१९५५ — मजहर-खानः, अभिनेता।१९५९ — अनन्त-कुमारः, राजनीतिज्ञः।१९६५ — सन्दीप-पाण्डेयः, रेमन-मैगसेसे-पुरस्कार-विजेता समाजसेवी।१९७० — देवेन्द्र-फडणवीसः, महाराष्ट्रस्य मुख्यमन्त्री।१९९५ — अरमान-मलिकः, गायकः।
निधनम्
१९३३ — यतीन्द्र-मोहन-सेनगुप्तः, भारतीय-स्वातन्त्र्य-सङ्ग्रामस्य प्रमुखः नेता।१९६८ — मुत्तूलक्ष्मी-रेड्डी, प्रसिद्धा चिकित्सिका, समाजसेविका तथा पद्मभूषण-पुरस्कार-प्राप्ता।
महत्त्वपूर्णाः अवसराःराष्ट्रिय-ध्वज-अङ्गीकार-दिवसः।राष्ट्रिय-आम्र-दिवसः।
Hindusthan Samachar / Divya Ranjan