उर्वरकस्य, बीजस्य मानसूनस्थितेश्च कृषि मंत्रालयेन कृता समीक्षा, संवेदनशीलजिल्लासु वर्तिष्यते विशेषदृष्टिः
नव दिल्ली, 21 जुलाईमासः(हि.स.)। केन्द्रीयकृषिकिसानकल्याणग्रामीणविकासमन्त्रिणः शिवराजसिंहचौहानस्य अध्यक्षतायां मङ्गलवासरे कृषिमन्त्रालयस्य साप्ताहिकसमीक्षोपवेशनम् आयोजितम्। उपवेशने खरीफसस्यबुवायाः प्रगतिः, वर्षाकालस्य स्थितिः, सम्भावितस्य अलनीनोप
केन्द्रीय कृषि मंत्री शिवराज सिंह चौहान


नव दिल्ली, 21 जुलाईमासः(हि.स.)।

केन्द्रीयकृषिकिसानकल्याणग्रामीणविकासमन्त्रिणः शिवराजसिंहचौहानस्य अध्यक्षतायां मङ्गलवासरे कृषिमन्त्रालयस्य साप्ताहिकसमीक्षोपवेशनम् आयोजितम्। उपवेशने खरीफसस्यबुवायाः प्रगतिः, वर्षाकालस्य स्थितिः, सम्भावितस्य अलनीनोप्रभावस्य, उर्वरकबीजानाम् उपलब्धेः तथा जलाशयेषु जलसञ्चयस्य स्थितेः विस्तृता समीक्षा कृता।

उपवेशने अधिकारिणः न्यूनवृष्टियुक्तप्रदेशेषु विशेषनिरीक्षणं स्थापयितुं राज्यैः सह निरन्तरं समन्वयं च धारयितुं निर्देशिताः। कृषिमन्त्री उक्तवान् यत् कृषकानां आवश्यकतानुसारं समये उर्वरकाणाम् उपलब्धता सुनिश्चितीक्रियताम् तथा वितरणव्यवस्थायां कापि न्यूनता यदि भवेत् तर्हि सा त्वरितं निराक्रियताम्।

उपवेशनस्य अनन्तरं प्रकाशिते वक्तव्ये कृषिमन्त्री चौहानः उक्तवान् यत् राज्यैः सह नियमितसमन्वयेन आपूर्तिव्यवस्थायाः उपरि निरन्तरं निरीक्षणं क्रियते। कृषिमन्त्री कृषिविज्ञानकेन्द्राणि राज्यसर्वकारान् च भूमिस्थस्तरस्य सूचनाः संगृह्य कृषकेभ्यः योजनानां प्रभावी लाभः प्रदीयताम् इति निर्देशितवान्।

चौहानः दलहनतिलहनकर्पासमिशनान् राज्यैः सह नियमितसाप्ताहिकसमीक्षोपवेशनानि आयोजयितुं क्षेत्रस्तरात् प्राप्तप्रत्युत्तरस्य आधारेण त्वरितपदानि स्वीकर्तुं च निर्देशितवान्। सः उक्तवान् यत् केन्द्रसरकारः कृषकहितसंरक्षणाय कृषिउत्पादनवृद्धये च पूर्णतया प्रतिबद्धा अस्ति। मन्त्रालस्य अनुसारं १७ जुलै २०२६ पर्यन्तं देशे खरीफसस्यानां बुवायाः कुलक्षेत्रफलम् ६५८.१९ लक्षहेक्टेयरमिति अभिलिखितम्। यद्यपि गतवर्षस्य अपेक्षया बुवायाक्षेत्रफले न्यूनता अभवत् तथापि अनेकेषु राज्येषु धानदलहनानाम् अन्यसस्यानां च बुवायां उत्तमा प्रगतिः दृष्टा।

उपवेशने निवेदितं यत् दक्षिणपश्चिममान्सूनवृष्टिः राजस्थानहरियाणापञ्जाबप्रदेशानां अवशिष्टभागान् आवृत्य ९ जुलै २०२६ पर्यन्तं सम्पूर्णदेशे स्वविस्तारं पूर्णवती। सामान्यस्थितौ मानसूनवृष्टिः ८ जुलैपर्यन्तं सम्पूर्णदेशं प्राप्नोति, अतः अस्मिन् वर्षे तस्याः विस्तारः सामान्यतिथेः केवलम् एकदिनानन्तरं सम्पन्नः।

मौसमविभागस्याङ्कानुसारं १ जूनतः १५ जुलै २०२६ पर्यन्तं देशे सामान्यापेक्षया २३ प्रतिशतं न्यूनवृष्टिः अभिलिखिता। अस्मिन् अवधौ यत्र सामान्यवृष्टिः २९४.२ मिलीमीटर् भवितव्या आसीत् तत्र वास्तविकवृष्टिः २२७ मिलीमीटर् अभवत्। पूर्वभारते पूर्वोत्तरभारते च अधिकतमा ३६ प्रतिशतं वर्षान्यूनता अभिलिखिता। कृषिमन्त्रालयेन उक्तं यत् वर्षास्थितेः, सस्यस्वास्थ्यस्य, बुवाप्रगतेः च उपरि निरन्तरं निरीक्षणं क्रियते। एतदर्थं देशस्य २७० संवेदनशीलजनपदानां स्थितेः समीक्षा कृता अस्ति। आवश्यकता उत्पन्ने राज्यैः सह समन्वयं कृत्वा कृषिप्रबन्धनम् आकस्मिकयोजनाश्च प्रवर्तयितुं अधिकारिणः निर्देशिताः।

उपवेशने खरीफ २०२६ कृते उर्वरकाणां बीजानां च उपलब्धेः अपि समीक्षा कृता।

------------

Hindusthan Samachar / Dheeraj Maithani