राज्यपालमहोदया ‘नशामुक्तभारत-अभियानम्’ जनान्दोलनरूपेण प्रवर्तयितुम् आह्वानम् अकरोत्
लखनऊनगरम्, २१ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य राज्यपालमहोदयया राज्य-विश्वविद्यालयानां कुलाधिपतिश्च आनन्दी-बेनपटेलः इत्यनया मङ्गलवासरे सहारनपुरस्थितस्य माता-शाकुम्भरी-विश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहम् आभासीयमाध्यमेन सम्बोधितवती। अस्मिन् अव
राज्यपाल आनंदीबेन पटेल ने मां शाकुम्भरी विश्वविद्यालय के दीक्षांत समारोह को वर्चुअल माध्यम से संबोधित करते हुए


लखनऊनगरम्, २१ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य राज्यपालमहोदयया राज्य-विश्वविद्यालयानां कुलाधिपतिश्च आनन्दी-बेनपटेलः इत्यनया मङ्गलवासरे सहारनपुरस्थितस्य माता-शाकुम्भरी-विश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहम् आभासीयमाध्यमेन सम्बोधितवती।

अस्मिन् अवसरे राज्यपालमहोदया ‘नशामुक्तभारत-अभियानम्’ जनान्दोलनरूपेण प्रवर्तयितुम् आह्वानम् अकरोत्। सा अवदत् यत् ‘माई भारत’ इति पटलस्य माध्यमेन १६ जुलाईमासात् व्यापकं जनजागरूकता-अभियानं सञ्चाल्यते। युवानः अस्मिन् अभियाने सम्मिलन्तु, स्वपरिवारं समाजं च मादकद्रव्याणां दुष्प्रभावेषु जागरूकं कुर्वन्तु इति सा प्रार्थितवती। नशात् सर्वथा दूरं भवितव्यम्, गृहं गृहं गत्वा जनान् अपि अस्य विषये जागरूकान् कर्तव्यम् इति सा उक्तवती। विद्यार्थिनः युवानश्च स्वस्वास्थ्यस्य विशेषं ध्यानं कुर्वन्तु, नियमितयोगाभ्यासं, व्यायामं, सन्तुलित-जीवनशैलीं च स्वीकुर्वन्तु इति अपि सा आह्वानम् अकरोत्।

राज्यपालमहोदया अवदत् यत् भारतदेशः अधुना अर्धचालक-प्रौद्योगिकी, क्वाण्टम्-प्रौद्योगिकी, रक्षाक्षेत्रम्, विमानान्तरिक्षक्षेत्रम् इत्यादिषु अत्याधुनिकक्षेत्रेषु तीव्रगत्या प्रगतिं करोति। स्वदेशीय-प्रौद्योगिक्याः अनुसन्धानस्य च प्रोत्साहनं आवश्यकम् इति प्रतिपाद्य सा अवदत् यत् युवभिः नवोन्मेषस्य अनुसन्धानस्य च माध्यमेन राष्ट्रनिर्माणे योगदानं दातव्यम्। भारतीय-विमानान्तरिक्षक्षेत्रस्य उपलब्धीनाम् उल्लेखं कुर्वती सा अवदत् यत् २०४७ तमवर्षपर्यन्तं ‘विकसितभारत’-लक्ष्यस्य सिद्ध्यर्थं सर्वकारेण सह व्यक्तिगतस्तरेऽपि प्रयत्नाः क्रियन्ते। सम्प्रतिकाले केचन युवानः मिलित्वा अन्तरिक्षे स्वीयम् उपग्रहं स्थापितवन्तः, एषा उपलब्धिः सर्वेषां कृते अनुकरणीया अस्ति।

सा अवदत् यत् विश्वविद्यालयेन शिक्षायाः सह समाजं प्रति स्वकर्तव्यस्य अपि प्रभाविरूपेण निर्वहणं कृतम्। विश्वविद्यालयेन मण्डलस्य त्रयाणां जनपदानां जनपदप्रशासनानां सहयोगेन ७०० आङ्गनवाडी-स्यूतानां वितरणम्, स्वास्थ्यपरीक्षणशिबिराणि, रक्तदान-शिबिराणि, ‘क्षयरोगमुक्तभारत-अभियानम्’, ‘नशामुक्तभारत-अभियानम्’, महिलास्वास्थ्यजागरूकताकार्यक्रमाः, रजःस्राव-कप-वितरणम्, बालगृह-कारागारयोः शैक्षणिकभ्रमणम्, स्वच्छत-अभियानम्, वृक्षारोपणम्, जैवविविधता-संरक्षणम्, वर्षाजल-सञ्चयनम् इत्यादयः अनेके कार्यक्रमाः आयोजिताः, ये समाजं प्रति विश्वविद्यालयस्य संवेदन-शीलतां प्रदर्शयन्ति। सा सम्पूर्णप्रदेशे अद्यावधि ६७,६४३ आङ्गनवाडी-स्यूतानां वितरणस्य अपि उल्लेखम् अकरोत्।

पर्यावरणसंरक्षणस्य विषये विशेषं बलं दत्त्वा सा प्रत्येकं नागरिकम् आहूतवती यत् प्रत्येकं न्यूनातिन्यूनम् एकं वृक्षं रोपयेत्, तस्य नियमितपालनपोषणस्य च संकल्पं कुर्यात्। जलसंरक्षणाय ड्रिप-सिञ्चन-प्रणाली इत्यादीनां आधुनिकसिञ्चन-तन्त्राणाम् अवलम्बनस्य आवश्यकतायाम् अपि सा बलम् अयच्छत्।

अस्मिन् अवसरे विश्वविद्यालयेन दत्तकग्रामेषु स्थितेषु विद्यालयेषु आयोजितानां विविधस्पर्धानां विजेतारः छात्राः सम्मानिताः। विद्यार्थिभिः पर्यावरणसंरक्षणम्, देशभक्तिञ्च आधृत्य सांस्कृतिककार्यक्रमाः प्रस्तुताः। दीक्षान्त-समारोहस्य दिग्दर्शिका, भाषण-सङ्ग्रहः, चयनितचित्रकलासङ्ग्रहः च विमोचिताः।

मुख्यातिथिः भारतीयविज्ञानशिक्षा-अनुसन्धानसंस्थानस्य निदेशकः प्रो. अनिलकुमारत्रिपाठी अवदत् यत् कृत्रिमबुद्धिमत्ता, स्वयंचालनम्, नूतन-प्रौद्योगिकी च अस्मिन् युगे विद्यार्थिभिः स्वयम् समयानुकूलतया सज्जीकर्तव्यम्। अनुशासनम्, निरन्तर-अध्ययनम्, नवोन्मेषः, ज्ञानार्जनं च सफलतायाः आधाराः सन्ति; राष्ट्रनिर्माणे विद्यार्थिनः सक्रियभूमिकां निर्वहन्तु इति सः आह्वानम् अकरोत्।

विशिष्टातिथिः उच्चशिक्षाराज्यमन्त्री रजनीतिवारी अवदत् यत् ज्ञानस्य, प्रौद्योगिक्याः, नवोन्मेषस्य च अस्मिन् युगे विद्यार्थिनः, विशेषतः छात्र्यः, आत्मनिर्भराः भवितुमर्हन्ति। कृत्रिमबुद्धिमत्ता, यन्त्राधिगमः, नवोद्यम-संस्कृतिः इत्येतानां स्वीकृत्या, सर्वकारीययोजनानां लाभ-ग्रहणेन, शिक्षया, संस्कारेण, सामाजिक-दायित्वेन च राष्ट्रनिर्माणे योगदानं दातव्यमिति सा आह्वानम् अकरोत्।

Hindusthan Samachar / Divya Ranjan