आर्थिक सहयोगः भारत-उत्तर मैसिडोनिया संबंधानां प्रमुखः आधारः -मुर्मुः
नव दिल्ली, 21 जुलाईमासः (हि.स.)।राष्ट्रपतिः द्रौपदी मुर्मु मङ्गलवासरे उक्तवती यत् आर्थिकसहयोगः भारतस्य उत्तरमैसिडोनियादेशस्य च द्विपक्षीयसम्बन्धानाम् अत्यन्तमहत्त्वपूर्णः स्तम्भः अस्ति। उभयदेशौ व्यापारनिवेशयोः वर्धनाय, वाणिज्यसहयोगस्य सुदृढीकरणाय,
राष्ट्रपति द्रौपदी मुर्मु मंगलवार को अपनी उत्तर मैसिडोनिया की समकक्ष गोर्डाना सिलजानोव्स्का-दाव्कोवा के साथ


नव दिल्ली, 21 जुलाईमासः (हि.स.)।राष्ट्रपतिः द्रौपदी मुर्मु मङ्गलवासरे उक्तवती यत् आर्थिकसहयोगः भारतस्य उत्तरमैसिडोनियादेशस्य च द्विपक्षीयसम्बन्धानाम् अत्यन्तमहत्त्वपूर्णः स्तम्भः अस्ति। उभयदेशौ व्यापारनिवेशयोः वर्धनाय, वाणिज्यसहयोगस्य सुदृढीकरणाय, द्विपक्षीयव्यापारस्य द्विगुणीकरणाय च संयुक्तरूपेण कार्यं कर्तुम् सहमतिं व्यक्तवन्तौ।

उत्तरमैसिडोनियादेशस्य स्वराजकीययात्रायाः अवसरे राष्ट्रपतिः मुर्मुः राष्ट्रपतिना गोर्डाना सिलजानोव्स्का दाव्कोवा सह द्विपक्षीयप्रतिनिधिमण्डलस्तरीयवार्तायाः अनन्तरं संयुक्तवक्तव्ये उक्तवती यत् उभयदेशौ सूचनाप्रौद्योगिकी, कृषि, खाद्यप्रसंस्करणम्, औषधनिर्माणम्, वस्त्रोद्योगः, जैवप्रौद्योगिकी, पर्यटनम्, आतिथ्यसेवा, चलचित्रनिर्माणम् इत्यादिषु क्षेत्रेषु सहयोगविस्तारविषये विस्तरेण चर्चां कृतवन्तौ। भारत उत्तरमैसिडोनियावाणिज्यमञ्चः एतेषु क्षेत्रेषु नवीनावसराणां संवर्धनाय महत्त्वपूर्णः मञ्चः भविष्यति।

राष्ट्रपतिः उक्तवती यत् स्वास्थ्यसेवाक्षेत्रे उभयदेशयोः मध्ये द्विपक्षीयसमझौतस्य नवीकरणं क्रियते। तदनन्तरं पारम्परिकचिकित्सापद्धतीनां सहितं स्वास्थ्यक्षेत्रे सहयोगस्य अधिकसुदृढीकरणाय अपि सहमतिः अभवत्। सा उक्तवती यत् सांस्कृतिकसम्बन्धाः जनसम्पर्काः च उभयदेशयोः सम्बन्धानां दृढाधाराः सन्ति। सृजनात्मकउद्योगक्षेत्रे सहयोगः सांस्कृतिकविनिमयस्य महत्त्वपूर्णं माध्यमं भविष्यति।

मुर्मु उक्तवती यत् भारतम् अन्तरराष्ट्रीयसौरगठबन्धनम्, आपदारोधीअवसंरचनागठबन्धनम्, वैश्विकजैवईन्धनगठबन्धनम् इत्यादिभिः उपक्रमैः वैश्विकसहयोगस्य संवर्धनं करोति। सा एतेषु उपक्रमेषु सम्मिलितुं उत्तरमैसिडोनियादेशस्य इच्छायाः स्वागतं कृत्वा उक्तवती यत् एतेन तस्मै हरितऊर्जाक्षेत्रे आपदाप्रबन्धनक्षेत्रे च वैश्विकानुभवस्य तकनीकीविशेषज्ञतायाश्च लाभः भविष्यति।

सा उत्तरमैसिडोनियादेशाय भारतीयप्राविधिकआर्थिकसहयोगकार्यक्रमस्य अन्तर्गतं प्रशिक्षणस्थानानां सङ्ख्यां द्विगुणीकर्तुं घोषणाम् अकरोत्। एतेषु प्रशिक्षणकार्यक्रमेषु कृत्रिमबुद्धिमत्तासम्बद्धाः पाठ्यक्रमाः अपि समाविष्टाः भविष्यन्ति।

राष्ट्रपतिः उक्तवती यत् एषा कस्यापि भारतीयराष्ट्रपतेः उत्तरमैसिडोनियादेशस्य प्रथमा राजकीययात्रा अस्ति तथा च तस्याः दृढविश्वासः अस्ति यत् एतेन उभयदेशयोः बहुआयामीसाझेदारी नूतनगतिं प्राप्स्यति। सा अवदत् यत् यात्रायाः अवसरे उभौ राष्ट्रपतī स्कोप्येसङ्ग्रहालये महात्मागान्धिनः प्रतिमायाः संयुक्तरूपेण अनावरणं करिष्यतः, या उभयदेशयोः समानलोकतान्त्रिकमूल्यानां मैत्रीसम्बन्धानां च प्रतीका भविष्यति।

-----------

हिन्दुस्थान समाचार / Dheeraj Maithani