Enter your Email Address to subscribe to our newsletters

पूर्वी सिंहभूमः, 21 जुलाईमासः (हि.स.)।कोल्हानप्रदेशस्य बृहत्तमस्य शासकीयस्वास्थ्यसंस्थानस्य एमजीएम मेडिकल कॉलेज एवं अस्पतालस्य कृते शीघ्रमेव स्वच्छनियमितपेयजलापूर्तेः मार्गः सुलभः भवति इति दृश्यते।
मानगो नगरनिगमेन सञ्चालितायाः डिमना जलापूर्ति योजनायाः अन्तर्गतं मङ्गलवासरे शंकोसाई श्यामनगरस्थितात् स्वर्णरेखा नदीस्थितात् इंटेकवेलात् चिकित्सालयपरिसरपर्यन्तं जलप्रेषणस्य परीक्षणं सफलतया सम्पन्नम्।
परीक्षणकाले इंटेकवेलात् एमजीएम मेडिकल कॉलेज परिसरस्थितं वाटर ट्रीटमेंट प्लाण्ट पर्यन्तं जलं सफलतया प्रापितम्। अनेन योजना अन्तिमचरणं प्राप्तवती इति सुनिश्चितम्।
यद्यपि परीक्षणकाले पाइपलाइनस्य चतुर्षु स्थानेषु जलस्रवणस्य समस्या दृश्यत। तेषु शंकोसाई संख्या १ क्षेत्रे त्रिषु स्थानेषु तथा डिमना स्थित स्मार्ट बाजार समीपे एकस्मिन् स्थाने जलस्य स्रवणं दृष्टम्। परीक्षणसमाप्तेः अनन्तरं निर्माणसंस्था मदन लाल बजाज कन्स्ट्रक्शन प्राइवेट लिमिटेड इत्यनेन सर्वेषु जलस्रवणस्थलेषु मरम्मतकार्यं प्रारब्धम्। अधिकारिणः अवदन् यत् आगामिषु त्रिषु दिनेषु सर्वाः तकनीकीदोषाः निवार्य पाइपलाइन पूर्णतया सुसज्जा क्रियते।
ज्ञापितं यत् अस्याः योजनायाः परीक्षणं १५ जुलै दिनाङ्के प्रस्तावितम् आसीत्। किन्तु ट्रान्सफार्मरस्य अनुपलब्धता, न्यूनविद्युत्प्रवाहस्य समस्या तथा पाइपलाइनस्य संयोजनभागानां ढलाई पूर्णतया न शुष्कत्वात् परीक्षणं स्थगितम् आसीत्। अनन्तरं निर्माणसंस्थया डीजल जनरेटरस्य साहाय्येन पम्पप्रणाली प्रवर्त्य परीक्षणं सफलतया सम्पन्नम्।
परियोजनासम्बद्धाधिकारिणां अनुसारम् यदि अवशिष्टानि तकनीकी औपचारिककार्याणि निर्धारितसमये सम्पन्नानि भविष्यन्ति तर्हि १५ अगस्त दिनाङ्कपर्यन्तम् अस्याः बहुप्रतीक्षितजलापूर्तियोजनायाः उद्घाटनं कृत्वा एमजीएम मेडिकल कॉलेज एवं अस्पताले नियमितरूपेण स्वच्छपेयजलापूर्तिः प्रारभ्यते। ततः परं चिकित्सालयस्य वार्डेषु, शल्यकर्मकक्षेषु, प्रयोगशालासु, छात्रावासेषु तथा अन्येषु विभागेषु सुरक्षितं शुद्धं च जलं प्रदातुं शक्यते।
उल्लेखनीयम् अस्ति यत् एमजीएम चिकित्सालयः दीर्घकालात् पेयजलसंकटेन पीडितः अस्ति। रोगिणः, तेषां परिवारजनाः, चिकित्सकाः तथा कर्मचारीणः पर्याप्तस्य स्वच्छजलस्य अनुपलब्धत्वात् निरन्तरं कठिनताः अनुभवन्ति स्म।
नूतनजलापूर्तियोजनायाः प्रारम्भे सति न केवलं चिकित्सालयस्य पेयजलसमस्यायाः स्थायीसमाधानं भविष्यति, अपि तु स्वास्थ्यसेवानां गुणवत्तायामपि सुधारस्य अपेक्षा वर्तते।
अस्याः परियोजनायाः विषये जमशेदपुर पश्चिम विधानसभाक्षेत्रस्य विधायकः सरयू राय निरन्तरं सक्रियः आसीत्। तेन अनेकवारं योजनायां जायमानविलम्बस्य विषयः उत्थाप्य सम्बद्धविभागेषु अधिकारिषु च कार्यस्य शीघ्रीकरणार्थं दबावः निर्मितः। अधुना सफलपरीक्षणस्य अनन्तरं चिकित्सालये शीघ्रं स्वच्छपेयजलापूर्तेः आशा अधिका दृढा अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani