मुख्यमंत्री आयुष्मान आरोग्य योजना: कर्नाटक और तमिलनाडोः अतिरिक्तेषु समस्तराज्येषु नकदराशिरहिता निशुल्कम् उपचार सुविधा उपलब्धा
जयपुरम्, 21 जुलाईमासः (हि.स.)। मुख्यमन्त्री आयुष्मान आरोग्य (मां योजना) योजनायाः अन्तर्गतं प्रदेशस्य पात्रपरिवारेभ्यः अधुना राज्यात् बहिरपि उत्तमस्य नगदरहितस्य निःशुल्कचिकित्सायाः सुविधा प्रदीयते। राज्यसर्वकारेण प्रवर्तितया आउटबाउंड इंटर स्टेट प
मुख्यमंत्री आयुष्मान आरोग्य योजना


जयपुरम्, 21 जुलाईमासः (हि.स.)।

मुख्यमन्त्री आयुष्मान आरोग्य (मां योजना) योजनायाः अन्तर्गतं प्रदेशस्य पात्रपरिवारेभ्यः अधुना राज्यात् बहिरपि उत्तमस्य नगदरहितस्य निःशुल्कचिकित्सायाः सुविधा प्रदीयते। राज्यसर्वकारेण प्रवर्तितया आउटबाउंड इंटर स्टेट पोर्टेबिलिटी व्यवस्थया पात्रलाभार्थिनः देशस्य विभिन्नेषु राज्येषु प्रधानमन्त्री जन आरोग्य योजना सम्बद्धेषु चिकित्सालयेषु पञ्चविंशतिलक्षरूप्यकपर्यन्तं नगदरहितं निःशुल्कचिकित्सालाभं प्राप्तुं शक्नुवन्ति। षण्मासेषु प्रदेशस्य त्रिंशत्सहस्राधिकजनाः अन्यराज्येषु चिकित्सालयेषु पञ्चविंशतिलक्षरूप्यकपर्यन्तं निःशुल्कचिकित्सालाभं प्राप्तवन्तः।

मुख्यमन्त्री आयुष्मान आरोग्य योजना केन्द्रसर्वकारस्य प्रधानमन्त्री जन आरोग्य योजनया सह समन्वयेन सञ्चाल्यते। अस्याः योजनायाः अन्तर्गतं प्रदेशस्य १.३६ कोटि पात्रपरिवारेभ्यः प्रतिवर्षं पञ्चविंशतिलक्षरूप्यकपर्यन्तं नगदरहितं निःशुल्कचिकित्सोपचारः प्रदीयते। योजनायां २१७९ चिकित्सापैकेजाः समाविष्टाः सन्ति। तेषु सामान्यरोगैः सह कर्कटरोगः, हृदयरोगः, वृक्करोगः, अङ्गप्रत्यारोपणम् इत्यादीनां गम्भीररोगाणामपि उपचारः समाविष्टः अस्ति। कर्नाटकं तमिळनाडुं च विहाय अन्येषु सर्वेषु राज्येषु एषा सुविधा उपलब्धा अस्ति।

पूर्वं गम्भीररोगाणां उपचारार्थं प्रदेशस्य रोगिणः गुजरातं, देहलीम् इत्यादीनि अन्यराज्यानि गत्वा उपचारं कारयन्ति स्म। तेन तेषाम् आर्थिकप्रशासनिककठिनताः उत्पद्यन्ते स्म। अस्याः समस्यायाः समाधानार्थं राज्यसर्वकारेण १५ दिसम्बर २०२५ तः आउटबाउंड इंटर स्टेट पोर्टेबिलिटी व्यवस्था प्रवर्तिता। ततः परं पात्रपरिवाराः देशस्य अन्यराज्येषु स्थितेषु पीएमजेएवाई सम्बद्धेषु चिकित्सालयेष्वपि नगदरहितचिकित्सालाभं प्राप्नुवन्ति।

अस्याः व्यवस्थायाः अन्तर्गतं प्रधानमन्त्री जन आरोग्य योजनायाः पात्रपरिवारैः सह मुख्यमन्त्री आयुष्मान आरोग्य योजनायाः सर्वेभ्यः पात्रपरिवारेभ्यः अपि अन्यराज्येषु पञ्चविंशतिलक्षरूप्यकपर्यन्तं नगदरहितनिःशुल्कचिकित्सालाभः प्रदीयते।

अद्यावधि अस्य प्रावधानस्य अन्तर्गतं ५९५९ क्लेमाः प्रस्तुताः सन्ति। तेषां कुलराशिः सप्तदशकोटिरूप्यकेभ्यः अधिका अस्ति। एतेषां क्लेमानां माध्यमेन रोगिणः हृदयस्टेण्टस्थापनम्, हृदयबायपासशल्यक्रिया, कर्कटरोगशल्यक्रिया, कीमोथेरेपी, डायलिसिस, सामान्यशल्यक्रिया, सिजेरियन प्रसवः इत्यादीनां विविधजटिलचिकित्सानां लाभं प्राप्तवन्तः।

लाभार्थिभिः सर्वाधिकः उपचारः गुजरात, हरियाणा, मध्यप्रदेश, महाराष्ट्र तथा देहलीस्थितेषु चिकित्सालयेषु कृतः। सम्प्रति इंटर स्टेट पोर्टेबिलिटी व्यवस्थायाः अन्तर्गतं देशव्यापिनः प्रधानमन्त्री जन आरोग्य योजना सम्बद्धेषु प्रायः षोडशसहस्राधिकेषु शासकीयचिकित्सालयेषु तथा चतुर्दशसहस्राधिकेषु निजीचिकित्सालयेषु नगदरहितचिकित्सायाः सुविधा उपलब्धा अस्ति। तेषु गुजराते २०६७, हरियाणायां १३६६, मध्यप्रदेशे १६२२, महाराष्ट्रे १७०९, पञ्जाबे ८२३, उत्तरप्रदेशे ६१८२ तथा देहल्यां १८४ चिकित्सालयाः समाविष्टाः सन्ति।

चिकित्सा स्वास्थ्यविभागस्य प्रमुखशासनसचिवा गायत्री राठौड् अवदत् यत् राज्यसर्वकारस्य उद्देश्यं एतदेव यत् प्रदेशस्य प्रत्येकः पात्रनागरिकः आवश्यकतायां राज्यसीमातः बहिरपि कस्यापि आर्थिकभारस्य विना गुणसम्पन्नां चिकित्सां प्राप्नुयात्। मुख्यमन्त्री आयुष्मान आरोग्य योजनायाः आउटबाउंड पोर्टेबिलिटी व्यवस्था अस्मिन् दिशि महत्त्वपूर्णा जनहितकारी च प्रयत्नः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani