लोकसभाध्यक्षः, प्रधानमंत्री अन्ये च मल्लिकार्जुन खरगेवर्याय जन्मदिनस्य वर्धापनानि दत्तवन्तः
नव दिल्ली, 21 जुलाईमासः (हि.स.)। लोकसभाध्यक्षः ओम बिरला, प्रधानमन्त्री नरेन्द्रमोदी, रक्षामन्त्री राजनाथसिंहः तथा अन्येऽपि नेतारः मङ्गलवासरे भारतीयराष्ट्रीयकाङ्ग्रेसदलस्य राष्ट्रियाध्यक्षं राज्यसभायां विपक्षनेतारं मल्लिकार्जुनखर्गे इत्येतं जन्मदि
कांग्रेस के राष्ट्रीय अध्यक्ष मल्लिकार्जुन खरगे (फाइल फोटो)


नव दिल्ली, 21 जुलाईमासः (हि.स.)।

लोकसभाध्यक्षः ओम बिरला, प्रधानमन्त्री नरेन्द्रमोदी, रक्षामन्त्री राजनाथसिंहः तथा अन्येऽपि नेतारः मङ्गलवासरे भारतीयराष्ट्रीयकाङ्ग्रेसदलस्य राष्ट्रियाध्यक्षं राज्यसभायां विपक्षनेतारं मल्लिकार्जुनखर्गे इत्येतं जन्मदिवसस्य शुभावसरे हार्दिकाभिः शुभकामनाभिः अभिनन्दितवन्तः।

लोकसभाध्यक्षः ओमबिर्ला सामाजिकमाध्यमे ‘एक्स’ इत्यत्र अलिखत् यत् “राज्यसभायाः विपक्षनेतारं मल्लिकार्जुनखर्गे इत्येतं जन्मदिवसस्य हार्दिकाः शुभकामनाः। ईश्वरं प्रार्थये यत् भवतः उत्तमस्वास्थ्यं सुखमयम् आयुः समृद्धं जीवनं च सदा भवतु।”

प्रधानमन्त्री नरेन्द्रमोदी अपि मल्लिकार्जुनखर्गे इत्यस्मै जन्मदिवसस्य शुभकामनाः प्रेषितवान्। सः तस्य दीर्घायुषः निरामयजीवनस्य च कामनाम् अकरोत्।

रक्षामन्त्री राजनाथसिंहः अपि राज्यसभायाः विपक्षनेतारं भारतीयराष्ट्रियकाङ्ग्रेसदलस्य राष्ट्रियाध्यक्षं मल्लिकार्जुनखर्गे इत्येतं जन्मदिवसस्य शुभेऽवसरे शुभाशंसाः प्रेष्य तस्य दीर्घायुषः आरोग्यसम्पन्नजीवनस्य च कामनाम् अकरोत्।

---------------

Hindusthan Samachar / Dheeraj Maithani