Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 21 जुलाईमासः(हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे एण्डी बर्नहैम इत्येतं ब्रिटेनदेशस्य प्रधानमन्त्रिपदभारग्रहणस्य अवसरः हार्दिकशुभकामनाः प्रेषितवान्।
प्रधानमन्त्री मोदी सामाजिकमाध्यमे ‘एक्स’ इत्यत्र अलिखत् यत् “ब्रिटेनदेशस्य प्रधानमन्त्रिपदभारग्रहणस्य शुभावसरे एण्डी बर्नहैम इत्यस्मै हार्दिकाः शुभकामनाः। भारतं ब्रिटेनदेशश्च समानैः लोकतान्त्रिकमूल्यैः सम्बद्धौ स्तः। उभयोर्देशयोः मध्ये व्यापारः, निवेशः, प्रौद्योगिकी, रक्षा, जनसम्पर्कः इत्यादिषु विविधक्षेत्रेषु व्यापकः सहयोगः विद्यते। अस्मिन् मासि ‘सीईटीए’ इत्यस्य प्रवर्तनात् अस्माकं द्विपक्षीयसाझेदारी अधिकं सुदृढा भविष्यति।
भारतब्रिटेनयोः व्यापकसामरिकसहकार्यं अधिकं सुदृढीकर्तुं तथा उभयोरपि राष्ट्रयोः ‘साझा विजन २०३५’ इत्यस्य लक्ष्यस्य सफलसिद्धये भवता सह संयुक्तरूपेण कार्यं कर्तुमहं उत्सुकः अस्मि।”
---------------
Hindusthan Samachar / Dheeraj Maithani