Enter your Email Address to subscribe to our newsletters

मुख्यमन्त्रिणा सह निर्माण्याः पदाधिकारिणः मिलितवन्त:, अतिरिक्त-भूमेः आवण्टनस्य अनुरोधम् अकुर्वन्
भोपालनगरम्, २१ जुलाईमासः (हि.स.)। श्याम-सेल-एण्ड्-पॉवर-निर्माणी-लिमिटेड् इत्यस्याः पदाधिकारिणः मङ्गलवासरे मध्यप्रदेश-भ्रमणस्य अवसरं प्राप्य भोपालनगरे विधानसभाम् आगत्य मुख्यमन्त्रिणा डॉ. मोहन-यादवेन सह अमिलन्। अस्मिन् अवसरे ते प्रदेशे १००० कोटि-रूप्यकाणां निवेशस्य इच्छां प्रकटितवन्तः।
मुख्यमन्त्री डॉ. मोहन-यादवः प्रसन्नतां व्यक्तवान् यत् उद्योगपतयः निवेशकाः च प्रदेशे निवेशे रुचिं प्रदर्शयन्ति। सः अवदत् यत् समृद्धस्य राष्ट्रस्य हृदयभूते मध्यप्रदेशे निवेशम् इच्छन्तं प्रत्येकं निवेशकं सस्नेहं स्वागतं क्रियते।
मध्यप्रदेश-विधानसभा-स्थिते मुख्यमन्त्रिणः कक्षे सम्पन्नायां भेंटायां श्याम-सेल-एण्ड्-पॉवर-निर्माण्याः संयुक्त-प्रबन्ध-निदेशकः संजय-अग्रवालः तथा मुख्य-परिचालन-अधिकारी दीपक-कुमार-गौरः मुख्यमन्त्रिणं स्वनिर्माण्याः भावि-परियोजनानां विषये अवगतवन्तौ।
निर्माण्याः निवेशकाः अवदन् यत् तेषां निर्माणी स्टेनलेस-स्टील-निर्माणं करोति। धार-जनपदस्य औद्योगिक-प्रक्षेत्रे पीथमपुरे तेषाम् एका निर्माण-एकका पूर्वमेव सञ्चाल्यते। अस्यां निर्माण-एककायां निर्माण्या ५५० कोटि-रूप्यकाणां निवेशः कृतः अस्ति तथा १३०० जनानां कृते रोजगारः प्रदत्तः अस्ति। निर्माणी पीथमपुरे एव स्वस्य द्वितीयां उत्पादन-एककां प्रारब्धुम् इच्छति। अस्याः कृते सा १००० कोटि-रूप्यकाणां निवेशं कृत्वा सहस्राधिक-जनानां रोजगारं प्रदातुम् इच्छति। एतदर्थं तस्यै पीथमपुरे अतिरिक्त-भूमेः आवश्यकता वर्तते। निर्माण्याः पदाधिकारिणः मुख्यमन्त्रिणं अतिरिक्त-भूमेः आवण्टनस्य अनुरोधम् अकुर्वन्।
औद्योगिक-नीति-निवेश-संवर्धन-विभागस्य प्रमुख-सचिवः राघवेन्द्र-कुमार-सिंहः अवदत् यत् निर्माण्यै प्रदेशस्य समस्त-नवीन-औद्योगिक-नीतीनां विषये सूचना प्रदत्ता। निर्माण्या स्वस्य द्वितीय-निर्माण-एककायाः स्थापनार्थम् अपि पीथमपुरः एव चयनितः। अस्यै द्वितीय-निर्माण-एककायै २५ एकड्-परिमिता भूमिः पूर्वमेव प्रदत्ता अस्ति, किन्तु निर्माण्यै ततोऽप्यधिक-भूमेः आवश्यकता वर्तते। अस्मिन् अवसरे मध्यप्रदेश-औद्योगिक-विकास-निगम-लिमिटेड् इत्यस्य प्रबन्ध-निदेशकः चन्द्रमौलि-शुक्लः तथा अन्ये विभागीय-वरिष्ठ-अधिकारिणः अपि उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan