Enter your Email Address to subscribe to our newsletters

भोपालम्, 21 जुलाईमासः (हि.स.)।
मध्यप्रदेशविधानसभायाः वर्षाकालीनसत्रस्य द्वितीये दिने मङ्गलवासरे समाननागरिकसंहिताविधेयकं विधानसभया पारितम् अभवत्। अस्मिन् अवसरे सत्तापक्षस्य विपक्षस्य च मध्ये तीव्रा वाक्कलहः, कोलाहलः, घोषणाभिः सह विरोधप्रदर्शनं च अभवत्। काङ्ग्रेसदलस्य विरोधस्य अपि अध्यक्षः नरेन्द्रसिंहतोमरः कार्यवाहीम् अविरतां कृत्वा विधेयकस्य पारितत्वं घोषितवान्।
विधानसभायाम् अद्य मन्त्री गौतमटेटवालः मध्यप्रदेशसमाननागरिकसंहिताविधेयकं २०२६ इत्यस्य चर्चार्थं सदसि प्रस्तावम् उपस्थापितवान्। विपक्षनेता उमङ्गसिंघारः एतत् विधेयकं प्रवरसमितेः समीपं प्रेषयितुं प्रार्थितवान्, किन्तु शासनपक्षेन तत् न स्वीकृतम्। अनन्तरं सत्तापक्षस्य विपक्षस्य च मध्ये तीव्रा वाक्कलहः प्रारब्धः। काङ्ग्रेसदलस्य विधायकाः समाननागरिकसंहितायाः विरोधे घोषणाः अकुर्वन्, यदा तु भाजपादलस्य विधायकाः मन्त्रिणः च विधेयकस्य चर्चां कर्तुम् आग्रहम् अकुर्वन्। कोलाहलस्य कारणात् विधानसभायाः कार्यवाही प्रथमं दशनिमेषान् अनन्तरं पुनः पञ्चदशनिमेषान् यावत् स्थगिता अभवत्।
अनन्तरं समाननागरिकसंहिताविषये चर्चायां काङ्ग्रेसदलस्य विधायकः बालाबच्चनः शासनस्य अभिप्रायम् उद्दिश्य प्रश्नान् उत्थापितवान्। विपक्षनेता उमङ्गसिंघारः विधायकौ आतिफअकीलः आरिफमसूदः च विधेयकं प्रवरसमितेः समीपं प्रेषयितुम्, संविधानस्य अनुच्छेदस्य २९ अन्तर्गतं अल्पसंख्यकानाम् अधिकाराणां संरक्षणं कर्तुम्, एतत् राजनैतिककार्यसूचीमिति कथयित्वा विरोधं प्रदर्शितवन्तः। तथापि शासनपक्षेन विधेयकं सदनात् पारितं कारितम्।
---------------
Hindusthan Samachar / Dheeraj Maithani