ग्वालियरनगरे समाहर्त्र्या बालिका-गृहस्य तथा वन-स्टॉप-केन्द्रस्य आकस्मिक-निरीक्षणम्
– लम्बित-प्रकरणानां शीघ्र-निराकरणाय, बालिकानां निर्बाध-शिक्षायै तथा सुदृढ-सुरक्षा-व्यवस्थायै निर्देशाः प्रदत्ताः ग्वालियरनगरम्, २० जुलाईमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियर-नगरे समाहर्त्री रुचिका-चौहान: सोमवासरे सायंकाले जयारोग्य-चिकित्सालय-परिसरे
ग्वालियरः कलेक्टर ने बालिका गृह एवं वन स्टॉप सेंटर का किया औचक निरीक्षण


– लम्बित-प्रकरणानां शीघ्र-निराकरणाय, बालिकानां निर्बाध-शिक्षायै तथा सुदृढ-सुरक्षा-व्यवस्थायै निर्देशाः प्रदत्ताः

ग्वालियरनगरम्, २० जुलाईमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियर-नगरे समाहर्त्री रुचिका-चौहान: सोमवासरे सायंकाले जयारोग्य-चिकित्सालय-परिसरे स्थितयोः वन-स्टॉप-केन्द्रस्य बालिका-गृहस्य च आकस्मिक-निरीक्षणं कृत्वा व्यवस्थायाः अवलोकनम् अकरोत्।

तया महिला-सहायता-सङ्ख्या-१८१ इत्यस्याः लम्बित-प्रकरणानां शीघ्र-निराकरणाय, बालिकाणां शिक्षा कस्मिन्नपि परिस्थितौ न प्रभावितव्या इति सुनिश्चितीकरणाय तथा उभयोरपि संस्थयोः सुरक्षा-स्वच्छता-व्यवस्थयोः सुदृढीकरणाय निर्देशाः प्रदत्ताः।

वन-स्टॉप-केन्द्रस्य निरीक्षणकाले समाहर्त्री अन्तर्जाल-पटले महिला-सहायता-सङ्ख्या-१८१ इत्यस्याः अभिलेखित-प्रकरणानां समीक्षाम् अकरोत्। निर्धारित-कालावधौ प्रकरणानां निराकरणं न जातम् इति कारणेन सा असन्तोषं प्रकट्य अवशिष्टानां सर्वेषां लम्बित-प्रकरणानां त्वरित-निराकरणं सुनिश्चितं कर्तुम् आदेशान् अददात्। तया केन्द्रे निवसन्तीभिः महिलाभिः सह संवादं कृत्वा ताभ्यः प्रदीयमानानां सुविधानामपि सूचना गृहीता।

बालिका-गृहस्य निरीक्षणकाले समाहर्त्री सर्वासां बालिकानां शैक्षणिक-स्थितेः सूचनां प्राप्तवती। तया स्पष्टतया निर्देशितं यत् कस्मिन्नपि परिस्थितौ कस्याश्चिदपि बालिकायाः शिक्षा बाधिता न भवेत् तथा तासां अध्ययनार्थम् आवश्यकाः सर्वाः सुविधाः उपलब्धाः क्रियेरन्।

समाहर्त्र्या वर्षा-ऋतुम् अवलोक्य भवने सीलनस्य, मलिनतायाः तथा अन्यासाम् असुविधानां निवारणार्थं विशेष-सावधानता पालनीया इति निर्देशाः अपि प्रदत्ताः।

सीसीटीवी-चित्रग्रहण-यन्त्राणाम् अवलोकनं कृत्वा तया तेषां समीपे पर्याप्त-प्रकाश-व्यवस्था सुनिश्चिती-करणाय निर्देशाः प्रदत्ताः, येन निगरानी-व्यवस्था प्रभाविनी तिष्ठेत्। सहैव तया उभयोरपि संस्थयोः सुरक्षा-व्यवस्थां अधिकं सुदृढां कर्तुं विशेषं बलं प्रदत्तम्।

निरीक्षणावसरे जनपद-कार्यक्रम-अधिकारिणी, महिला-बाल-विकास-विभागस्य उपासना-राय:, सहायक-सञ्चालकः राहुल-पाठकः तथा अन्ये सम्बद्ध-अधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan