Enter your Email Address to subscribe to our newsletters

कोलकाता, 21 जुलाईमासः (हि.स.)।
महुआ मोइत्रा इति तृणमूल-काङ्ग्रेस-सांसदा जुलैमासस्य २० दिनाङ्कस्य रात्रौ प्रायः दशवादने स्वस्य सामाजिकमाध्यमलेखायां दीर्घं दृश्यसन्देशं प्रसारितवती। तेन सन्देशेन सा दिल्ल्यां सम्पन्नस्य छात्रयुवप्रदर्शनस्य समर्थनम् अकरोत्। प्रदर्शने समवेतानां युवानां सा मुक्तकण्ठेन प्रशंसाम् अकरोत् तथा च केन्द्रसर्वकारस्य दिल्लीपुलिसस्य च विरुद्धं तीक्ष्णान् आरोपान् अकरोत्।
महुआ मोइत्रा स्वसन्देशे उक्तवती यत्, “अद्य अमितशाहः दिल्लीपुलिसायुक्तं पृच्छन् भविष्यति— ‘कतिजनाः आसन्?’ यूयं तान् दर्शितवन्तः, हे जेन् ज़ी, यूयं तान् दर्शितवन्तः।” सा अवदत् यत् एषः तेषां सर्वेषां युवानां प्रति “महान् प्रणामः” अस्ति, ये जन्तरमन्तरे, जनपथे, पटेलचौके, प्रेसक्लबे तथा अन्येषु स्थानेषु प्रदर्शने समागताः, लाठीप्रहारं अश्रुवायुप्रयोगं च सोढ्वापि दृढतया स्थितवन्तः।
सा अवदत् यत् प्रदर्शनस्य समये बहवः युवानः पुलिसकार्यवाह्याः दृश्यचित्राणि अभिलेखितवन्तः, यस्य कारणात् तस्याः मते “गोदीमाध्यमानि अधुना सत्यं गोपयितुं न शक्नुवन्ति।” सा आरोपम् अकरोत् यत् तेषु दृश्यचित्रेषु दिल्लीपुलिसदलस्य कर्मिणः स्वयमेव पाषाणान् गृहीत्वा प्रदर्शनकारिषु प्रक्षिपन्तः दृश्यन्ते। तया एतदपि अभ्यधायि यत् पुलिसकर्मिणः प्रदर्शनकारिणः प्रहरन्तः अपशब्दान् प्रयुञ्जते। प्रश्नं प्रस्तौति स्म, “किमियं अमितशाहस्य भाषा उत अमितशाहस्य वर्दी?”
महुआ मोइत्रा अवदत् यत् जुलैमासस्य २० दिनाङ्कस्य प्रदर्शनम् ऐतिहासिकम् आसीत्, यतः तत् कस्यचित् नेतुः राजनैतिकदलस्य वा नेतृत्वे न सम्पन्नम्। सा अवदत्, “अस्य नेतृत्वं न सोनम् वाङ्गचुकः अकरोत्, न अभिजीत् भानः, न च कश्चन राजनेता। तत्र कश्चिदपि नेता नासीत्। एतत् सर्वकारात् उत्तरदायित्वस्य आग्रहाय युवानां स्वतःस्फूर्तः रोषः आसीत्।”
सा प्रदर्शने समवेतान् युवानः प्रति उक्तवती यत्, “अद्य यत् यूयं प्रारब्धवन्तः, तत् एकेनैव रात्र्या समाप्तं मा कुरुत। अस्य युक्तियुक्तपर्यवसानपर्यन्तं नयत। सर्वकारात् उत्तरदायित्वम् अपेक्षध्वम् तथा शिक्षामन्त्रिणः त्यागपत्रस्य मागं निरन्तरं कुर्वन्तु।”
महुआ मोइत्रा अवदत् यत् सर्वकारेण एतादृशस्य विशालजनसमर्थनस्य कल्पनापि न कृता आसीत्। तस्याः मते सर्वकारः अचिन्तयत् यत् केवलं द्विसहस्रं पञ्चसहस्रं वा जनाः आगमिष्यन्ति, किन्तु युवानां विशालसङ्ख्यया समागमात् सर्वकारः विस्मितः अभवत्।
सा अवदत्, “यूयं अद्य इतिहासं रचितवन्तः। कृपया एतत् निरन्तरं चालयत। विपक्षः एतत् कर्तुं न शक्नोति, राजनेतारोऽपि एतत् कर्तुं न शक्नुवन्ति। एतत् केवलम् अस्य देशस्य युवानः एव कर्तुं शक्नुवन्ति। भवतां पक्षे अहिंसा अस्ति, भवतां पक्षे सत्यं अस्ति, विलम्बेन वा शीघ्रं वा सर्वकारः भवतां वचनं श्रोतुमेव बाध्यः भविष्यति।”
महुआ मोइत्रा आरोपम् अकरोत् यत् सर्वकारः एतादृशं मन्यते यत् सः सर्वस्मात् विषये सहजतया पलायितुं शक्नोति तथा युवानां भविष्येन सह अपि क्रीडितुं शक्नोति। सा अवदत् यत् यदि युवानः निरन्तरं शान्तिपूर्णरीत्या मार्गेषु स्वस्वरम् उत्थापयन्ति, तर्हि सर्वकारस्य उपरि दबावः वर्धिष्यते। सा अवदत्, “पश्यामः ते कियत्कालं यावत् लाठीप्रहारान् कुर्वन्ति, कियत्कालं यावत् बलप्रयोगं कुर्वन्ति। समग्रः विश्वः पश्यतु यदत्र किं प्रवर्तते।”
स्वसन्देशस्य अन्ते महुआ मोइत्रा प्रदर्शने समवेतानां सर्वेषां यूनां प्रति कृतज्ञतां व्यक्तीकृत्य अवदत्, “एषा तु केवलम् आरम्भः अस्ति। अस्य अद्भुतस्य दिवसस्य कृते भवद्भ्यः सर्वेभ्यः धन्यवादाः।”
---------------
Hindusthan Samachar / Dheeraj Maithani