Enter your Email Address to subscribe to our newsletters

चिसीनाउः (मोल्दोवा), 21 जुलाईमासः (हि.स.)।
भारतस्य राष्ट्रपतिः द्रौपदीमुर्मुः त्रिराष्ट्राणां राजकीययात्रायाः प्रथमचरणं मोल्दोवादेशे सम्पन्नवती। सा अधुना उत्तरमेसेडोनियादेशस्य द्विदिवसीययात्रां करिष्यति। उत्तरमेसेडोनियादेशाय प्रस्थानात् पूर्वं राष्ट्रपतिः मुर्मुः चिसीनाउनगरे आयोजिते राजकीयभोजे सहभागिता कृतवती। तस्य भोजस्य आयोजनं तस्याः सम्मानार्थं मोल्दोवादेशस्य राष्ट्रपतिः मायासैंडू अकरोत्।
राष्ट्रपतिः मुर्मुः मोल्दोवादेशे भारतीयसमुदायस्य सदस्यैः सह अपि संवादम् अकरोत्। एषा सूचना भारतस्य राष्ट्रपतिभवनस्य आधिकारिक एक्स माध्यमेन प्रकाशिताभवत्। एक्ससन्देशे उक्तम् यत्, राष्ट्रपतिः द्रौपदीमुर्मुः उत्तरमेसेडोनियादेशाय प्रस्थानात् पूर्वं चिसीनाउनगरे मोल्दोवादेशस्य राष्ट्रपत्या स्वसम्मानार्थम् आयोजिते भोजे सहभागिता कृतवती।
अन्यस्मिन् एक्ससन्देशे उक्तम् यत् मुर्मुः चिसीनाउनगरे भारतीयसमुदायस्य सदस्यैः सह संवादम् अकरोत्। भारतीयसमुदायेन तस्याः हार्दिकेन उत्साहपूर्णेन च स्वागतं कृतम्।
उल्लेखनीयं यत् कस्यापि भारतीयराष्ट्रपतेः मोल्दोवादेशस्य एषा प्रथमा यात्रा अस्ति। उत्तरमेसेडोनियादेशस्य यात्रां सम्पन्न्य सा रोमानियादेशम् गमिष्यति।
तया मोल्दोवादेशस्य राष्ट्रपत्या सह द्विपक्षीयोपवेशनं कृतम् तथा प्रतिनिधिमण्डलस्तरीयवार्तायाः नेतृत्वम् अपि कृतम्। राष्ट्रपतिः मुर्मुः सह अस्यां राजकीययात्रायां उपभोक्तृकार्यम् खाद्यसार्वजनिकवितरणविभागस्य राज्यमन्त्री निमुबेनजयन्तीभाईबाम्भणिया, राज्यसभासदस्यः डॉ. दिनेशशर्मा तथा लोकसभासदस्यः विजयबघेलः अपि सन्ति।
जुलैमासस्य २० दिनाङ्के प्रातः चिशिनाउ अन्ताराष्ट्रियविमानपत्तने राष्ट्रपतिः मुर्मुः मोल्दोवादेशस्य उपप्रधानमन्त्री विदेशमन्त्री च मिहाईपॉपसोई इत्यनेन स्वागतिता। ततः प्रेसिडेन्शियलपैलेस इति स्थले मोल्दोवादेशस्य राष्ट्रपतिः मायासैंडू तस्याः हार्दिकं स्वागतं कृतवती। तस्यै सम्मानरक्षादलप्रदर्शनम् अपि प्रदत्तम्।
साक्षात् उपवेशने प्रतिनिधिमण्डलस्तरीयवार्तायां च उभाभ्यां नेतृभ्यां द्विपक्षीयसहकार्यस्य सर्वेषु पक्षेषु सार्थका भविष्यन्मुखी च चर्चा कृता। उभौ नेतारौ परस्परहितस्य विविधक्षेत्रेषु सहयोगविस्ताराय सहमतौ अभवताम्। एतेषु क्षेत्रेषु कृषिः, लॉजिस्टिक्स, आधारसंरचना, स्वास्थ्यसेवा, औषधनिर्माणम्, नवीकरणीयऊर्जा, डिजिटलसार्वजनिकाधारसंरचना, कृत्रिमबुद्धिमत्ता तथा नवाचारः समाविष्टाः सन्ति।
भारतस्य राष्ट्रपतिः भारतमोल्दोवाव्यापारमञ्चम् अपि सम्बोधितवती। राष्ट्रपतिः अवदत् यत् २०४७ वर्षपर्यन्तं विकसितराष्ट्रनिर्माणस्य सङ्कल्पस्य पूर्त्यर्थम् अग्रसरः भारतः विश्वासे साझा समृद्धौ च आधारिताः सहभागिताः अधिकं प्रोत्साहयितुम् इच्छति।
---------------
Hindusthan Samachar / Dheeraj Maithani