Enter your Email Address to subscribe to our newsletters

नवदिल्ली / जयपुरनगरम्, २१ जुलाईमासः (हि.स.)। राष्ट्रीयलोकतान्त्रिकदलस्य राष्ट्रियाध्यक्षः नागौर-लोकसभासदस्यश्च हनुमानबेनीवालः लोकसभायां मङ्गलवासरे नागौरस्य विश्वप्रसिद्धायाः पानमेथिकायाः भौगोलिकसंकेतक-चिह्नस्य प्रदानविषये प्रश्नम् अपृच्छत्। तस्य प्रश्नस्य उत्तरं वाणिज्य-उद्योगराज्यमन्त्री जितिनप्रसादः अयच्छत्।बेनीवालेन वाणिज्य-उद्योगमन्त्रालयात् पृष्टं यत् नागौरस्य पानमेथिकायाः जीआई-चिह्नाय आवेदनं दीर्घकालात् प्रलम्बितम् अस्ति। अतः एतां प्रक्रियां शीघ्रं सम्पन्नां कृत्वा कृषकेभ्यः वैश्विकपरिचयं दातुं सर्वकारः कानि पदानि गृह्णाति?
केन्द्रीयवाणिज्य-उद्योगराज्यमन्त्री जितिनप्रसादः स्वस्य लिखितोत्तरे अवदत् यत् ७ जुलाईमासे २०२३ दिनाङ्के राजस्थानस्य कृष्युत्पादन-मण्डी-समित्या नागौरी-पानमेथिकायाः जीआई-पञ्जीकरणार्थम् आवेदनं समर्पितम्। ६ फरवरीमासे २०२६ दिनाङ्के विशेषज्ञसमित्या तस्य मूल्याङ्कनं कृतम्। समितेः अनुशंसानुसारम् आवेदकाय परीक्षण-प्रतिवेदनं निर्गतम्। ततः १३ जुलाईमासे २०२६ तमे आवेदकेन अनुपालन-प्रतिवेदनम् अपि समर्पितम्, यत् सम्प्रति चेन्नई-स्थिते जीआई-पञ्जीकरणकार्यालये परीक्ष्यमाणम् अस्ति। मूल्याङ्कनप्रक्रियायाः समाप्तेः अनन्तरं भौगोलिकसंकेतक-अधिनियमः, १९९९ इत्यस्य प्रावधानानुसारम् अग्रिमकार्यवाही करिष्यते।
सांसदः हनुमानबेनीवालः अवदत् यत् नागौरस्य पानमेथिका स्वस्य विशिष्ट-गुणवत्तया, सुगन्धेन, स्वादेन च देशे विदेशे च प्रसिद्धा अस्ति। अस्याः जीआई-चिह्नप्राप्त्या न केवलम् अस्य उत्पादस्य वैश्विकब्राण्डचिह्नरूपेण प्रतिष्ठा वर्धिष्यते, अपितु प्रदेशस्य सहस्रशः मेथिकाकृषकाः उत्तमं विपणिं, समुचितमूल्यं, आर्थिकलाभं च प्राप्स्यन्ति।
उल्लेखनीयं यत् सांसदः एतं विषयं लोकसभायां बहुवारम् उत्थापितवान्। वित्तविवरणसत्रे सः केन्द्रीयवाणिज्य-मन्त्रिणा पीयूषगोयलेन सह अपि अस्मिन् विषये चर्चां कृतवान्।
Hindusthan Samachar / Divya Ranjan