Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 21 जुलाईमासः(हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदीः मङ्गलवासरे उक्तवान् यत् राष्ट्रियपात्रतासहप्रवेशपरीक्षायाः अनियमिततासु संलग्नानां विरुद्धं कठोरतमा कार्यवाही विधास्यते। प्रश्नपत्रस्य अवैधप्रकाशनस्य घटना प्रकाशमागते सति केन्द्रसर्वकारेण त्वरितमेव कार्यवाही कृता। त्रयोदश जनाः गृहीत्वा कारागारं प्रेषिताः। छात्राणां भविष्यं न प्रभावितं भवेदिति सुनिश्चितीकरणाय परीक्षा पुनरपि आयोजिता तथा च विना विलम्बं परिणामाः अपि प्रकाशिताः।
एषा घोषणा प्रधानमन्त्रीना नरेन्द्रमोदिना संसदः वर्षाकालीनसत्रस्य द्वितीये दिने मङ्गलवासरे संसद्भवनपरिसरे प्रातःकाले राष्ट्रियजनतान्त्रिकगठबन्धनस्य (राजग) संसदीयदलस्य “मङ्गलमिलन” उपवेशने कृता।
संसदः जी. एम्. सी. बालयोगी सभागारे आयोजितस्य अस्य उपवेशनस्य विषये संसदीयकार्यमन्त्री किरेणरिजिजू संसूचनाम् अददात् यत् प्रधानमन्त्री भविष्ये प्रश्नपत्रावैधप्रकाशनादृशानां घटनानां निवारणाय कठोराणि प्रभाविणि च उपायानि स्वीकर्तुम् आग्रहम् अकरोत्। सः अवदत् यत् छात्राणां भविष्येन सह क्रीडां कुर्वन्तः कदापि न क्षम्यन्ते। दोषिणां विरुद्धं कठोरदण्डविधानस्य आश्वासनमपि दत्तम्।
प्रधानमन्त्री अवदत् यत् प्रश्नपत्रावैधप्रकाशनं केवलम् एकस्य राज्यस्य विषयः नास्ति। एषः केवलं केन्द्रसर्वकारस्य विषयः अपि नास्ति। यत्र यत्र राज्येषु एतादृशाः घटनाः भवन्ति, तत्र तत्र अस्मिन् दुष्कर्मणि संलग्नानां जनानां दण्डनाय सर्वैः एकतया कार्यं करणीयम्।
प्रधानमन्त्री उक्तवान् यत् नीटप्रकरणे सर्वैः राजनैतिकदलैः दलगतराजनीतिम् अतिक्रम्य एकतया कार्यं करणीयम्। युवानां भविष्येन सह कश्चिदपि खिलवाडः न भवेत्, इत्यर्थं कठोराणि पदानि स्वीकरणीयानि तथा च दोषिणां दण्डनाय सर्वैः संयुक्तरूपेण प्रयत्नः करणीयः।
प्रधानमन्त्री नरेन्द्रमोदी राजगसांसदान् वर्षाकालीनसत्रस्य अवधौ एकतया स्थित्वा सर्वकारस्य पक्षं प्रभाविरूपेण प्रस्तुतुं सदनस्य कार्यवाहीं च सुव्यवस्थितरूपेण सञ्चालयितुं सहयोगं कर्तुम् आह्वानम् अकरोत्।
उपवेशनानन्तरं माध्यमप्रतिनिधिभिः सह संवादे भाजपासांसदा कङ्गनारणौत् अवदत् यत् प्रधानमन्त्री सांसदानां मार्गदर्शनम् अकरोत् तथा च अनेकविषयेषु महत्त्वपूर्णानि दिशानिर्देशानि प्रदत्तवान्। सा अवदत् यत् प्रधानमन्त्री युवानाम् आकाङ्क्षाणां न्यायपूर्णपरिपूर्तौ विशेषं बलम् अददात्।
प्रधानमन्त्री नीटविषये सर्वकारस्य रणनीतिमपि अवगतवान् तथा च देशस्य विभिन्नेषु क्षेत्रेषु युवाभिः प्राप्तानाम् उपलब्धीनां सफलतानां च विषये पर्याप्ता चर्चा न भवतीति चिन्ताम् अपि व्यक्तवान्। सः सांसदान् आहूतवान् यत् एताः उपलब्धयः अधिकप्रभाविरूपेण जनसामान्यपर्यन्तं प्रापयितव्याः।
---------------
Hindusthan Samachar / Dheeraj Maithani