छत्तीसगढम् : कृषकः अधुना उन्नत तकनीकीं प्रति अग्रसरः, पैडी ट्रांसप्लांटर विधिद्वारा धान्यरोपणम्
रायपुरम्, 21 जुलाईमासः (हि.स.)। कृषिविभागस्य तथा शासनस्य योजनानां सहयोगेन बलौदाबाजारभाटापाराजनपदस्य कृषकाः अधुना परम्परागतपद्धतिं परित्यज्य पैडीट्रान्सप्लान्टरयन्त्रस्य माध्यमेन धानस्य रोपणं कुर्वन्ति। अनेन रोपणे लग्नः समयः न्यूनः अभवत् तथा उत्पा
पैडी ट्रांसप्लांटर के माध्यम से धान की रोपाई कर रहे किसान


पैडी ट्रांसप्लांटर के माध्यम से धान की रोपाई


रायपुरम्, 21 जुलाईमासः (हि.स.)।

कृषिविभागस्य तथा शासनस्य योजनानां सहयोगेन बलौदाबाजारभाटापाराजनपदस्य कृषकाः अधुना परम्परागतपद्धतिं परित्यज्य पैडीट्रान्सप्लान्टरयन्त्रस्य माध्यमेन धानस्य रोपणं कुर्वन्ति। अनेन रोपणे लग्नः समयः न्यूनः अभवत् तथा उत्पादनस्य अपि वृद्धिः अभिलेखिता।

वर्तमानखरीफ-ऋतौ विकासखण्डस्य पलारीक्षेत्रस्य सकरी इति ग्रामस्य प्रगतिशीलकृषकौ लेखरामसाहू तथा बहोरनसाहूः स्वक्षेत्रे पैडीट्रान्सप्लान्टरयन्त्रेण धानस्य रोपणं कुरुतः। कृषकः लेखरामसाहू अवदत् यत् पूर्वं श्रमिकैः रोपणकार्यं कारयितुं द्वित्रदिनानि यावत् समयः लगति स्म तथा प्रतिएकरं ५००० तः ६००० रूप्यकाणां व्ययः भवति स्म। अधुना ट्रान्सप्लान्टरयन्त्रेण एकस्य एकरस्य रोपणं केवलं द्वित्रघण्टासु सम्पन्नं भवति तथा व्ययः अपि प्रायः २००० रूप्यकैः न्यूनः अभवत्। ऋजुरेखासु रोपणस्य कारणात् पादपानां वृद्धिरपि सम्यक् भवति।

पैडीट्रान्सप्लान्टरयन्त्रस्य लाभाः

दिने ६ तः ८ एकरपर्यन्तं रोपणं सम्भवति।

मजदूरीव्ययस्य समयस्य च उभयोरपि रक्षा भवति।

रोपणकाले श्रमिकानाम् अनुपलब्धतायाः समस्या निवारिता अभवत्।

कृषिविभागस्य अधिकारिणः अवदन् यत् पादपयोः परस्परदूरत्वं तथा पङ्क्त्योः दूरत्वं सम्यक् स्थापयित्वा १२ तः १५ दिनप्राचीनस्य पादपस्य रोपणं क्रियमाणे उत्पादनस्य वृद्धिः भवति। तेन सह कीटव्याधयः अपि न्यूनाः भवन्ति तथा उत्पादनम् अपि १५ तः २० प्रतिशतपर्यन्तं वर्धते।

---------------

Hindusthan Samachar / Dheeraj Maithani