सफलतां प्राप्तुं निरंतरम् अभ्यासः आवश्यकः- प्रधानमंत्री मोदी
नव दिल्ली, 21 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे निरन्तराभ्यासेन सफलताप्राप्तौ एकाग्रतायाः दृढसङ्कल्पस्य च महत्त्वं प्रतिपादयत् संस्कृतसुभाषितम् सामाजिकमाध्यमे ‘एक्स’ इत्यत्र समविभजत्। प्रधानमन्त्री लिखितवान् यत् “एकाग्रता
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नव दिल्ली, 21 जुलाईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे निरन्तराभ्यासेन सफलताप्राप्तौ एकाग्रतायाः दृढसङ्कल्पस्य च महत्त्वं प्रतिपादयत् संस्कृतसुभाषितम् सामाजिकमाध्यमे ‘एक्स’ इत्यत्र समविभजत्।

प्रधानमन्त्री लिखितवान् यत्

“एकाग्रता च सङ्कल्पः स्नायुवद् वर्धनक्षमौ।

नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥”

अस्य सुभाषितस्य व्याख्यायां सः अवदत् यत् एकाग्रता दृढसङ्कल्पश्च मनुष्यस्य स्नायुतन्त्रवत् वर्धनयोग्यौ स्तः। नियमिताभ्यासेन समुचितप्रयत्नैश्च तयोः विकासः सुदृढीकरणं च भवति। कालक्रमेण एतौ गुणौ अधिकाधिकौ दृढौ प्रभावशालिनौ च भवतः।

---------------

Hindusthan Samachar / Dheeraj Maithani