Enter your Email Address to subscribe to our newsletters

प्रयागराजनगरम्, २१ जुलाईमासः (हि.स.)। प्रदेशे दुग्ध-उत्पादनस्य संवर्धनाय तथा पशुपालकेभ्यः सर्वकारस्य विभिन्न-योजनानां अधिकतमं लाभं प्रदातुं उत्तरप्रदेश-सर्वकारेण सर्वेषां जनपदानां मुख्य-विकास-अधिकारिभ्यः आवश्यक-निर्देशाः प्रदत्ताः। सर्वकारस्य लक्ष्यं यत् प्रदेशे दुग्ध-उत्पादने कापि न्यूनता न भवेत् तथा डेयरी-क्षेत्रं अधिकं सुदृढं भवेत्।
अस्यैव क्रमस्य अन्तर्गतं ५ अगस्तमासे प्रयागराजस्य विकास-भवने दुग्ध-विकास-योजनानां व्यापक-प्रचार-प्रसाराय जन-जागरूकता-वर्धनाय च विशेष-गोष्ठी आयोजिता भविष्यति। एतां सूचनां मङ्गलवासरे मुख्य-पशु-चिकित्सा-अधिकारी डॉ. शिवनाथ-यादवः प्रदत्तवान्।
तेन उक्तं यत् अस्यां महत्त्वपूर्णायां गोष्ठ्यां जनपदस्य डेयरी-सञ्चालकाः, दुग्ध-विकास-योजनानां लाभार्थिनः, पशुपालकाः, मुख्य-विकास-अधिकारी तथा सम्बद्ध-विभागानाम् अधिकारिणः कर्मचारीणश्च सहभागिनः भविष्यन्ति।
मुख्य-पशु-चिकित्सा-अधिकारी डॉ. शिवनाथ-यादवः अवदत् यत् गोष्ठ्याः उद्देश्यः दुग्ध-विकास-सम्बद्धानां विभिन्न-सर्वकारीय-योजनानां अधिकाधिक-जनान् प्रति प्रापयितुम्, पशुपालकानां समस्याः समाधातुं तथा आधुनिक-डेयरी-प्रबन्धनस्य विषये जागरूकतां वर्धयितुम् अस्ति। अनेन अधिकाधिकाः पशुपालकाः योजनानां लाभं प्राप्य स्वकीयाम् आयं वर्धयितुं समर्थाः भविष्यन्ति।
सः उक्तवान् यत् योगी-सर्वकारः पशुपालन-डेयरी-क्षेत्रयोः ग्रामीण-अर्थव्यवस्थायाः सुदृढ-आधारशिलारूपेण विकासाय निरन्तरं प्रयतते। सर्वकारस्य योजनाभिः प्राविधिक-सहयोगेन च दुग्ध-उत्पादनं वर्धिष्यते, पशुपालकानाम् आयः वर्धिष्यते तथा प्रदेशस्य दुग्ध-अर्थव्यवस्थायाः नूतना सुदृढता भविष्यति।
Hindusthan Samachar / Divya Ranjan