उत्तर मैसेडोनियायां राष्ट्रपतेः मुर्मोः सोत्साहं स्वागतं, राजधानी स्कोप्जे इत्यत्र यापयिष्यति दिनद्वयम्
नवदिल्ली, 21 जुलाईमासः(हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मूः स्वस्य त्रिराष्ट्रराजकीययात्रायाः द्वितीयचरणे उत्तरमैसेडोनियादेशस्य राजधानीं स्कोप्जेनगरम् आगच्छत्। विमानस्थानके तद्देशस्य विदेशमन्त्री टिम्चो मुकुन्स्की तासां हार्दिकं स्वागतं कृतवान्।
राष्ट्रपति द्रौपदी मुर्मु और नॉर्थ मैसेडोनिया के विदेश मंत्री।


नवदिल्ली, 21 जुलाईमासः(हि.स.)।

राष्ट्रपतिः द्रौपदी मुर्मूः स्वस्य त्रिराष्ट्रराजकीययात्रायाः द्वितीयचरणे उत्तरमैसेडोनियादेशस्य राजधानीं स्कोप्जेनगरम् आगच्छत्। विमानस्थानके तद्देशस्य विदेशमन्त्री टिम्चो मुकुन्स्की तासां हार्दिकं स्वागतं कृतवान्।

विदेशमन्त्रालयस्य अनुसारे एषा कस्यापि भारतीयराष्ट्रपतेः उत्तरमैसेडोनियादेशस्य प्रथमा यात्रा अस्ति, या उभयदेशयोः वर्धमानान् सौहार्दपूर्णान् सम्बन्धान् प्रदर्शयति। एषा यात्रा भारतस्य उत्तरमैसेडोनियादेशस्य च सम्बन्धान् अधिकं सुदृढान् करिष्यति तथा च विविधेषु क्षेत्रेषु सहयोगस्य नूतनान् मार्गान् उद्घाटयिष्यति।

उल्लेखनीयम् अस्ति यत् राष्ट्रपतिः द्रौपदी मुर्मूः त्रिराष्ट्रराजकीययात्रायाः प्रथमचरणं मोल्दोवादेशे सम्पन्नवती। ततः अनन्तरम् अधुना सा उत्तरमैसेडोनियादेशस्य द्विदिवसीययात्रायाम् अस्ति। मुर्मू उत्तरमैसेडोनियादेशं प्रति प्रस्थानात् पूर्वं चिसीनाउनगरे आयोजिते राजकीयभोजे सहभागित्वम् अकरोत्। अस्मिन् अवसरे राष्ट्रपतिः द्रौपदी मुर्मू मोल्दोवादेशे निवसद्भिः भारतीयसमुदायस्य सदस्यैः सह अपि संवादम् अकरोत्।

---------------

Hindusthan Samachar / Dheeraj Maithani