गुरु जम्भेश्वर विश्वविद्यालये स्नातकस्य प्रथम वर्षे प्रवेशाय द्वितीय चरणस्य प्रक्रिया शुभारब्धा
मुरादाबादम्, 21 जुलाईमासः (हि.स.)। गुरुजम्भेश्वरविश्वविद्यालयस्य मुरादाबादस्थितस्य कुलसचिवः प्रो. गिरीशकुमारद्विवेदी मङ्गलवासरे अवदत् यत् गुरुजम्भेश्वरविश्वविद्यालयेन सम्बद्धेषु मुरादाबाद, रामपुर, सम्भल, बिजनौर, जेपीनगर अमरोहा इत्येषु जनपदेषु सञ्
गुरु जंभेश्वर विश्वविद्यालय : परास्नातक में प्रवेश के लिए  19 सितंबर को जारी होगी मेरिट सूची


मुरादाबादम्, 21 जुलाईमासः (हि.स.)।

गुरुजम्भेश्वरविश्वविद्यालयस्य मुरादाबादस्थितस्य कुलसचिवः प्रो. गिरीशकुमारद्विवेदी मङ्गलवासरे अवदत् यत् गुरुजम्भेश्वरविश्वविद्यालयेन सम्बद्धेषु मुरादाबाद, रामपुर, सम्भल, बिजनौर, जेपीनगर अमरोहा इत्येषु जनपदेषु सञ्चालितेषु राजकीयसंघटकानुदानितस्ववित्तपोषितेषु समस्तमहाविद्यालयेषु सत्रे २०२६ २७ स्नातकस्तरस्य समस्तपाठ्यक्रमाणां सेमेस्टरवार्षिकपद्धत्योः प्रथमवर्षे प्रवेशार्थं समर्थपटलमाध्यमेन पञ्जीकरणस्य महाविद्यालयचयनस्य च प्रथमचरणीयप्रक्रिया १६ जुलै दिवसे पूर्णा अभवत्।

कुलसचिवः अग्रे अवदत् यत् छात्रहिताय कुलपतेः २० जुलै आदेशस्य अनुपालनेन सत्रे २०२६ २७ स्नातकस्तरस्य समस्तपाठ्यक्रमाणां सेमेस्टरवार्षिकपद्धत्योः प्रथमवर्षे प्रवेशार्थं समर्थपटलमाध्यमेन पञ्जीकरणस्य महाविद्यालयचयनस्य च द्वितीयचरणीयप्रक्रियायाः विवरणम् अधोलिखितरूपेण अस्ति। ऑनलाइन आवेदनशुल्कं १५० रूप्यकाणि निर्धारितम् अस्ति।

कुलसचिवस्य अनुसारम् ऑनलाइन पञ्जीकरणस्य महाविद्यालयचयनस्य च प्रारम्भतिथिः २० जुलाईमासीयः अस्ति, ऑनलाइन पञ्जीकरणस्य अन्तिमतिथिः ३० जुलै अस्ति। तेन सह छात्रैः महाविद्यालये पञ्जीकरणपत्रेण सह आवेदनपत्रस्य समर्पणस्य अन्तिमतिथिः ३१ जुलै दिवसे सायं पञ्चवादनपर्यन्तम् अस्ति। विश्वविद्यालये प्रवेशम् इच्छन्तः छात्राः छात्र्यश्च विश्वविद्यालयस्य जालपुटस्य माध्यमेन प्रवेशसम्बद्धनियमानां अन्येषां विवरणानां च सूचनां प्राप्य ऑनलाइन आवेदनं पूरयितुं शक्नुवन्ति।

सहैव एतदपि सूच्यते यत् पञ्जीकरणानन्तरं ज्ञातासु त्रुटिषु संशोधनं छात्राः छात्र्यश्च समर्थलॉगिनमाध्यमेन ३१ जुलै दिवसे सायं पञ्चवादनपर्यन्तं कर्तुं शक्नुवन्ति। अस्य कालावधेः अनन्तरं कस्यापि प्रकारस्य संशोधनस्य अनुमतिः न प्रदास्यते।

Hindusthan Samachar / Dheeraj Maithani