Enter your Email Address to subscribe to our newsletters

बिलासपुरम् 21 जुलाईमासः (हि.स.)।
शिक्षाधिकार अधिनियम २००९ अन्तर्गत शैक्षणिकसत्रस्य २०२६ २७ वर्षस्य कृते निजीविद्यालयेषु प्रथमकक्षायां प्रवेशार्थं तृतीयः अन्तिमः च प्रवेशचरणं प्रारब्धम् अस्ति।
आरटीईपटलमाध्यमेन आनलाइन आवेदनानि जुलैमासस्य २२ दिनाङ्कात् अगस्तमासस्य ५ दिनाङ्कपर्यन्तं कर्तुं शक्यन्ते। जुलैमासस्य २५ दिनाङ्कात् अगस्तमासस्य ७ दिनाङ्कपर्यन्तं नोडलप्राचार्यैः प्राप्तानाम् आवेदनानां परीक्षणं सत्यापनं च क्रियिष्यते। ततः अगस्तमासस्य १० दिनाङ्कात् १४ दिनाङ्कपर्यन्तम् आनलाइन लाटरी तथा परामर्शप्रक्रियया चयनितबालकानां सूची प्रकाशिता भविष्यति। लाटरीप्रक्रियायां चयनितानां विद्यार्थिनां सम्बन्धितेषु निजीविद्यालयेषु प्रवेशः अगस्तमासस्य १७ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं सुनिश्चितः भविष्यति। अपरं अगस्तमासस्य २० दिनाङ्कात् २७ दिनाङ्कपर्यन्तं नोडलप्राचार्यैः प्रवेशितविद्यार्थिनां अन्तिमप्रविष्टिः आरटीई पटले अभिलेखिता भविष्यति।
Hindusthan Samachar / Dheeraj Maithani