Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 21 जुलाईमासः (हि.स.)।
असमप्रदेशे जलप्लावनस्य गम्भीरस्थितिं दृष्ट्वा राज्यसभासांसदौ तेरेसगोवालः योगेनमहनः च मुख्यमन्त्रिरक्षणनिधौ स्ववेतनस्य अंशदानं प्रदाय राहतपुनर्वासकार्येषु सहयोगं कृतवन्तौ।
उल्लेखनीयं यत् नागालैण्डप्रदेशस्य मोनजनपदे मेघविस्फोटेन मूसलधारावृष्ट्या च उत्तरासमप्रदेशे बाढायाः स्थितिः अधिका गम्भीरा अभवत्।
कार्बीपर्वतेषु सोमवासरे जातया अतिवृष्ट्या डिजूनद्याः जलस्तरः वर्धितः, येन कलियाबरक्षेत्रस्य अनेकानि स्थानानि जलमग्नानि अभवन्। कलियाबरक्षेत्रस्य शालना, कालापानी तथा आमगुडीप्रदेशाः सर्वाधिकं प्रभाविताः अभवन्।
उभयोः ग्रामयोः प्रायः ९० परिवाराणां समीपतः ५०० जनाः बाढया प्रभाविताः अभवन्। अनेकेषु गृहेषु जलं प्रविष्टम् अस्ति तथा जनजीवनं अत्यन्तं प्रभावितम् अस्ति। प्रशासनं परिस्थितेः उपरि सततं दृष्टिं धारयति तथा रक्षणकार्याणि निरन्तरं प्रचलन्ति।
-----------
Hindusthan Samachar / Dheeraj Maithani