सिक्किम-सुरङ्ग-दुर्घटनायां प्रधानमन्त्री शोकं व्यक्तवान्, मृतकानां निकटतम-परिजनेभ्यः द्वयं-द्वयं लक्ष-रूप्यकाणां साहाय्यस्य घोषणा
नवदेहली, २१ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सिक्किम-राज्यस्य नामची-जनपदे निर्माणाधीनस्य सुरङ्गस्य पतनात् जनानां मृत्यौ गहनं शोकं व्यक्तवान्। सः शोकसन्तप्त-परिवारान् प्रति प्रगाढां संवेदनां प्रकटयन् आहतानां शीघ्र-स्वास्थ्यलाभस्य कामनाम
प्रधानमंत्री नरेन्द्र मोदी शनिवार को ऑकलैंड में आयोजित कार्यक्रम में भारतीय समुदाय को संबोधित करते हुए


नवदेहली, २१ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सिक्किम-राज्यस्य नामची-जनपदे निर्माणाधीनस्य सुरङ्गस्य पतनात् जनानां मृत्यौ गहनं शोकं व्यक्तवान्। सः शोकसन्तप्त-परिवारान् प्रति प्रगाढां संवेदनां प्रकटयन् आहतानां शीघ्र-स्वास्थ्यलाभस्य कामनाम् अकरोत्।

प्रधानमन्त्रिणा प्रधानमन्त्री-राष्ट्रीय-राहत-कोषतः अस्यां दुर्घटनायां प्राणान् त्यक्तवतां प्रत्येकं व्यक्तेः निकटतम-परिजनाय द्वयं-द्वयं लक्ष-रूप्यकाणाम् अनुग्रह-राशेः प्रदानस्य घोषणा कृता। एतदतिरिक्तं प्रत्येकं आहताय पञ्चाशत्-सहस्र-रूप्यकाणां आर्थिक-साहाय्यमपि प्रदास्यते।

प्रधानमन्त्री अवदत् यत् अस्याः दुःखद-घटनायाः कारणात् सः अत्यन्तं व्यथितः अस्ति, अस्मिन् कठिन-समये तस्य संवेदनाः प्रभावित-परिवारैः सह सन्ति। तेन विश्वासः व्यक्त: यत् आहतेभ्यः सर्वसम्भवा चिकित्सकीय-सहायता उपलभ्यते।

Hindusthan Samachar / Divya Ranjan