सिक्किम-सुरङ्ग-दुर्घटनायां मुख्यमन्त्री प्रेमसिंह-तमाङ्गेन शोकः व्यक्तः, उद्धार-अभियानस्य तीव्रीकरणाय निर्देशाः प्रदत्ताः
गङ्गटोकनगरम्, २१ जुलाईमासः (हि.स.)। सिक्किम-राज्यस्य मुख्यमन्त्री प्रेमसिंह-तमाङ्गः नाम्ची-जनपदस्य झोलुङ्गे-अन्तर्गत-समरदुङ्ग-प्रदेशे निर्माणाधीने एनएचपीसी-तीस्ता-षष्ठ-चरण-जलविद्युत्-परियोजनायाः सुरङ्गे जातायां दुःखद-दुर्घटनायां प्रगाढं शोकं व्यक्त
समरदुङमा राहत एवं उद्धार कार्य जारी


गङ्गटोकनगरम्, २१ जुलाईमासः (हि.स.)। सिक्किम-राज्यस्य मुख्यमन्त्री प्रेमसिंह-तमाङ्गः नाम्ची-जनपदस्य झोलुङ्गे-अन्तर्गत-समरदुङ्ग-प्रदेशे निर्माणाधीने एनएचपीसी-तीस्ता-षष्ठ-चरण-जलविद्युत्-परियोजनायाः सुरङ्गे जातायां दुःखद-दुर्घटनायां प्रगाढं शोकं व्यक्तवान्। मुख्यमन्त्री दुर्घटनायां प्राणान् त्यक्तवत: श्रमिकान् प्रति श्रद्धाञ्जलिं समर्प्य शोकसन्तप्त-परिवारजनानां प्रति संवेदनां प्रकटितवान्।

मुख्यमन्त्री तमाङ्गः मङ्गलवासरस्य प्रातःकाले फेसबुक-माध्यमेन प्रकाशिते सन्देशे अस्मिन् दुःखद-प्रसङ्गे शोकं व्यक्तवान्। सः उक्तवान् यत् अस्मिन् कठिनकाले सम्पूर्णस्य राज्यस्य संवेदनाः प्रार्थनाश्च पीडित-परिवारैः सह सन्ति। सः आश्वासितवान् यत् राज्यसर्वकारः प्रभावित-परिवाराणां साहाय्यार्थं दृढतया तेषां पार्श्वे तिष्ठति। सः अवदत् यत् उद्धार-अभियानस्य सः निरन्तरं निरीक्षणं करोति।

जिल्ला-प्रशासनम्, सिक्किम-राज्य-आपदा-प्रबन्धन-प्राधिकरणम्, सिक्किम-आरक्षकविभाग:, राज्य-आपदा-प्रतिक्रिया-बलम्, अग्निशमन-आपत्कालीन-सेवाः, पाक्योंग-सिलीगुडी-स्थित-राष्ट्रीय-आपदा-प्रतिक्रिया-बलस्य दलानि तथा अन्याः विशेषज्ञ-संस्थाः सुरङ्गे अवशिष्टानां बद्धानां श्रमिकाणां शवा: बहिः निष्कासयितुं अहोरात्रं प्रयतन्ते।

मुख्यमन्त्री उद्धार-अभियाने संलग्नानां सर्वेषां सुरक्षाकर्मिणां तथा प्राविधिक-दलानां समर्पणं, साहसं, अथक-प्रयत्नांश्च प्रशंसितवान्। तेन सम्बद्ध-विभागेभ्यः सर्वसम्भवं साहाय्यं प्रदातुं, उद्धार-अभियानं तीव्रतरं कर्तुं तथा सम्पूर्ण-अभियानस्य अवधौ उच्चतम-सुरक्षा-मानकानां कठोरतया पालनं सुनिश्चितं कर्तुम् आदेशाः प्रदत्ताः।

मुख्यमन्त्री जनान् शान्तिं धारयितुं, अप्रमाणिताः भ्रामक-सूचनाः न प्रसारयितुं तथा प्रभावित-श्रमिकाणां तेषां परिवाराणां च कृते प्रार्थनां कर्तुम् आहूतवान्। सः उक्तवान् यत् राज्यसर्वकारः उद्धार-अभियानं सुरक्षिततया सफल-पर्यवसानपर्यन्तं नेतुं सर्वान् सम्भवान् प्रयत्नान् निरन्तरं करिष्यति।

उल्लेखनीयम् अस्ति यत् नाम्ची-जनपदस्य झोलुङ्गे-अन्तर्गत-समरदुङ्ग-प्रदेशे निर्माणाधीनायाः एनएचपीसी-तीस्ता-षष्ठ-चरण-जलविद्युत्-परियोजनायाः सुरङ्गे बद्धानां श्रमिकाणां अन्वेषण-उद्धार-अभियानं निरन्तरं प्रवर्तते। अधुना यावत् सप्त जनानां शवा: उद्धृतानि सन्ति।

Hindusthan Samachar / Divya Ranjan