Enter your Email Address to subscribe to our newsletters

गंगटोकम्, 21 जुलाईमासः (हि.स.)।
दक्षिणसिक्किमस्य नाम्चीमण्डलस्य झोलुङ्गक्षेत्रान्तर्गतसमरदुङ्गे निर्माणाधीने एनएचपीसी-तीस्ता-षष्ठचरण-जलविद्युत्परियोजनायाः सुरङ्गे जाते दुःखददुर्घटनायां प्रधानमन्त्री नरेन्द्रमोदी सिक्किमराज्यस्य मुख्यमन्त्रिणा प्रेमसिंहतमाङ्गेन दूरभाषमाध्यमेन संवादं कृत्वा घटनायाः स्थितेः तथा प्रचलितस्य उद्धारकार्यस्य विस्तृतां संसूचनां प्राप्तवान्।
मुख्यमन्त्री प्रेमसिंहतमाङ्गः सामाजिकमाध्यमेन अवदत् यत् प्रधानमन्त्री प्रभावितश्रमिकेषु तेषां परिवारजनिषु च गाढां संवेदनां प्रकट्य भारतसर्वकारस्य पक्षतः सर्वथा अपेक्षितसहायताप्रदानस्य आश्वासनम् अददात्। मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्रीणः चिन्ता, संवेदनशीलता, सहयोगस्य दृढप्रतिबद्धता च अस्मिन् विषमे काले सिक्किमराज्यस्य जनानां कृते महत् धैर्यं विश्वासं च प्रदत्तवती।
मुख्यमन्त्रिणः अनुसारं राष्ट्रियआपदाप्रतिक्रियाबलम् (एनडीआरएफ), राज्यआपदाप्रतिक्रियाबलम् (एसडीआरएफ), सिक्किमराज्यआपदाप्रबन्धनप्राधिकरणम् (एसएसडीएमए), जनपदप्रशासनम्, स्थानीयपुलिसदलम्, रङ्गपो-प्राथमिकस्वास्थ्यकेन्द्रस्य चिकित्सकदलम् तथा स्थानीयसमुदायः परस्परसमन्वयेन उद्धारकार्यं निरन्तरं सम्पादयन्ति तथा प्रभावितेभ्यः सर्वप्रकारां सहायां प्रदातुं सततं प्रयतन्ते।
मुख्यमन्त्री प्रेमसिंहतमाङ्गः सिक्किमराज्यस्य जनानां पक्षतः प्रधानमन्त्री नरेन्द्रमोदिनः प्रति हार्दिकम् आभारं प्रकटितवान्। सः उक्तवान् यत् दुःखस्य अस्मिन् समये प्रधानमन्त्रीणः सहयोगः, संवेदनशीलता, राज्यस्य प्रति प्रदर्शिता एकात्मभावना च सर्वेषां कृते अत्यन्तं प्रेरणादायिनी वर्तते। सिक्किमराज्यं प्रधानमन्त्रीणः निरन्तरमार्गदर्शनाय भारतसर्वकारस्य च अविच्छिन्नसहयोगाय प्रतिबद्धतायै च सदैव कृतज्ञं भविष्यति।
उल्लेखनीयमस्ति यत् दक्षिणसिक्किमस्य समरदुङ्गस्थितायां एनएचपीसी-सुरङ्गे कथितगैसस्रावात् सुरङ्गे मलवापतनाच्च अद्यावधि सप्त जनाः मृत्युमुपगताः। घटनास्थले राहतोद्धारकार्यं निरन्तरं प्रवर्तते।
---------------
Hindusthan Samachar / Dheeraj Maithani